________________
जुलाई-२०१६
रैक्यात् । समडाम- सामस्त्येन उद्यमं सृजाम इत्यर्थः । सकलत्रिभुवनस्तवनीयपरमेश्वरजिनेश्वरस्तोत्ररचनोद्यमाशंसाऽस्माभिर्विधीयमानाऽस्तीति भावः । जिनवरस्तोत्रकरणोद्यमाशंसिनां बहुत्वाद् बहुवचनम् । नाऽनुप्रप्यनं (प्रणयनं?), स्तावकानां बहुत्वविवक्षाया महाकविकृतस्तुतिष्वपि दृश्यमानत्वात् । एवमाद्यवृत्तं लेशतो विवृतम् ॥ अथ द्वितीयम् -
मदनसूदन ! सूदय ! देहिनां, भवभयं जिन ! सूदय सत्वरम् । भुवनबान्धव ! सूदय ! भाविनां, महिममन्दिर ! सूदय मानसे ॥२॥
अवचूरिः- हे जिन !- वीतराग !, हे मदनसूदन !- हे मन्मथमथन !, हे सूदय !- हे शोभनोन्नते !, देहिनां- प्राणिनां, भवभयं- संसारसाध्वसं, सूदयनिदलय, सत्वरं- शीघ्रम्; एवं पूर्वार्धं गतार्थम् । उत्तरार्धे तु वाक्यान्तरं यथा - हे भुवनबान्धव !- जगद्बन्धो !, जगतां बान्धववत् परमहितकारित्वात्; हे महिममन्दिर !- प्रभावावास !, हे सूदय !- अतिशयप्रबलदैव !, सु-अतिशयेन उत्-प्राबल्येन शुभदैवं यस्य स सूदयस्तस्याऽऽमन्त्रणमिति व्युत्पत्त्या । भाविनां- श्रद्धालूनां जनानां, मानसे- चित्ते, सूदय- सशुभ !, भाविनां मानसे भानुवत् तथा त्वमुदयं कुरुष्व यथाऽन्धकारः सर्वथाऽपि प्रलीयत इति भाव ॥२॥
विमल ! ते पदपङ्कजयामलं, विमलते हृदि यो जिन ! यामलम् । विम ! लसद्गुण सोऽयतयामलं, विमलमोक्षसनातनयामलम् ॥३॥
अवचूरिः- हे जिन !, हे विमल !- निष्पाप !, हे विम !- विशिष्टा मा- त्रिभुवनैश्वर्यलक्ष्मीर्यस्य स विमः, अथवा मा- ब्रह्मरूपा लक्ष्मीर्यस्य स विमः, तस्याऽऽमन्त्रणम्; हे लसद्गुण !, ते- तव, पदपङ्कजयामलं- पादपद्मयुग्मं; यो- जनो, हृदि- हृदये, विमलते- धारयति, मलि - मल्लि धारणे इति वचनात्, पदपङ्कजयामलं कथम्भूतं ? - यामानि- व्रतानि लातीति क्वचि [यामलं] - व्रतसङ्ग्राहकं, सर्वव्रतानां भगवन्मूलत्वात्; पुनः किंभूतम् ? - आमलं- आमान् - रोगान् लुनातीति डे आमलं - रोगलावि; हृदि ये स्मरन्ती