________________
अनुसन्धान-७०
यमकबन्धमयः जिनस्तवः
(सावचूरिः) असमसम्मददायिवचःप्रथं, सततपूरितविश्वमनोरथम् ।
नवितुमीशमनुत्तरसंविदं, जिनवरं समलाम-तमोभिदम् ॥१॥ अवचूरिः
जिनेन्द्रं नतदेवेन्द्र, [वीरं] नत्वाऽर्थदेशकम् । स्तोत्रस्यैतस्य सङ्ख्पाद्, व्युत्पत्तिः किञ्चिदुच्यते ॥१॥
असमा- अतुल्या, पञ्चत्रिंशद्गुणान्वितत्वात्, सम्मद- प्रमोददायिनी अथवाऽसमो यः सम्मदः- प्रमोदस्तत्प्रदायिनी, वचःप्रथा- वाग्विस्तरो यस्य स तथा, तं; सततं- निरन्तरं, पूरिता विश्वेषां- सर्वेषां, विश्वस्य- जगतो वा, मनोरथाइच्छाविशेषा येन स तथा, तं; ईशं- विश्वविश्वैश्वर्यविराजमानं, अनुत्तरासर्वोत्तमा, संविद्- ज्ञानं यस्य स तथा, तं; जिना- वीतरागास्तेषु वरस्तीर्थकरः श्रीवर्धमानादिस्तं, सह मलेन- पापेन यः स समलः, समलश्च स आमश्च- रोगो. द्रव्यभावभेदभिन्नः, समलामश्च ज्ञानं (तमः?)- समलामतमसी, ते भिनत्तीति समलामतमोभित्, तम् ।
अत्र अनुत्तरसंविदमिति ज्ञानातिशयः, समलामतमोभिदमिति अपायापगमातिशयः, अथवाऽपायापगममन्तरेण ज्ञानातिशयो न स्यादिति ज्ञानातिशयेनाऽऽक्षिप्तोऽपायापगमातिशयः, अथवा जिनवरमिति नाम्नैवाऽपायापगमातिशयः प्रतिपाद्यते, असमसम्मददायिवचःप्रथमिति वचनातिशयः, एतदतिशयत्रयाऽविनाभूतपूजातिशयोऽपि मन्तव्यः ।।
एवं सर्वातिशयाश्रयमूलातिशयचतुष्टयविशिष्टं विष्टपनायकं सकललोक कामितदायकं नवितुं- स्तोतुं, क्रिया गुप्ता । तत्कर्षणपक्षे तु तमोभिदमित्येतावदेव विशेषणम् । एवंविधविशेषणविशेषितं जिनवरं स्तोतुं वयं समलामसम्-पूर्वस्य ‘अड उद्यमे' इत्यस्य धातोः पञ्चम्या आमवि रूपमिदं, ड-लयो