________________
अनुसन्धान-७०
प्रमोदेन मनो नृत्य, रोमाञ्चैर्वपुरुल्लस । चिरादुन्मीलि(ल?)तं नेत्रे, ननु वीरवरोऽग्रतः ॥३।। अजन्मदायिने पित्रे, बान्धवायाऽविरोधिने । अद्रोहिणे चाऽ(च)मित्राय, श्रीवीर ! भवते नमः ॥४॥ श्रीवीरसद्ध्यानमयाग्निमग्नं, सङ्क्लिष्टभावार्जितकर्मकक्षम् । . भस्मीभवत्वाशु विरागिणो मे, तथा यथा नित्यसुखीभवामि ॥५॥
॥ इति श्रीमहावीरस्वामिलघुस्तोत्रम् ॥
इति जिनपतिपादपञ्चचञ्चद्विचारैः सुललितसुगमार्थे-नव्यकाव्यैः कथञ्चित् । कृतसमुचितसेवा सेवकानां जनानां जनितमधुरबोधा बोधिलाभाय सन्तु ॥२६।।
॥ इति पञ्चती कर स्तोत्रम् ॥ . ॥ पं. चारुदत्तगणिलिपीकृतम् ।। ॥ श्रीरस्तु लेखक-पाठकयोः ।