________________
अनुसन्धान-६९
मादृक्षेऽपि यदेतेषां प्राणिनामस्ति दुर्दशा । हा! धिग्मामित्यसौ स्वामी दीर्घ खिद्यति सर्वतः ॥१॥ कृतकर्मविपाकाग्नि-दहत्येताननारतम् ।
पश्यताऽपि मया हाहा! केनाऽहं त्रिजगत्पतिः ? ॥२॥ इत्येवमालोकयतस्तस्य का नाम तदपराधवृत्तिः! । न ह्यतिविज्ञयशस्विवैद्यस्य रोगिजनाऽगृहीतभेषजत्वे 'कुतस्तनोऽयं वैद्य' इति ख्यातिराधेया स्यात् । अतः कथञ्चिदनादिघोरतरान्धकारमिथ्यामलविगमनिर्देशकं जगज्जीवराजीवजीवातुसंज्ञितं केवलिदेवं प्रतिपद्य प्रमोदामहे वन्दामहे च । इदानीमभिज्ञाभिप्रायान्तरमपि प्राप्तव्यम् । तच्चेदं -
श्रीविक्रमनगरे कपिलोलूककणादबृहस्पतिशाक्यशिवभूतितरुसाङ्ख्यवैशेषिकनैयायिकचार्वाकबौद्धबौढिकस्वविषफलसमास्वादपराङ्मुखप्रवृत्त्युद्भूताऽमृतार्णवोल्लोललीलोपमसर्वनयावतारस्याद्वादरसप्रवचनवचनवीक्षादक्षप्रेक्षापरीक्षिता(त)निजतत्त्वानन्दपदपदवीसंप्रापणोत्सवसदुपायपरिचर्यापराणां तथाविधपण्डितमण्डलमण्डनवराणां श्रीमच्छ्री -------- विगततन्द्राणां चरणजाहमुपगम्य हर्षोत्कर्षाद् वार्षिकवन्दनाविज्ञापनाय कृष्णदुर्गस्थ ----- प्रभवतीति । एतावतैवाऽस्माकं कृतकृत्यत्वात् । कथमिति चेदेते ब्रूमः - सम्यक्त्वफला हि ज्ञानमहतां महती मतिः सङ्गतिर्वा । अथवा साध्विदमुच्यते -
नानारूपविकल्पजल्पविपिनप्लोषानलः केवलं सम्यक्त्वामृतसागरोज्ज्वलकलाकल्लोलकोलाहलः । साम्यानन्दपदप्रवेशनपटुः सर्वत्र नः सर्वदा
भूयादक्षयचन्द्रवाचकपदाम्भोजप्रसादोदयः ॥१॥ जयति जिनराज इति ॥