________________
अनुसन्धान-६९
निश्शेषातिशयैः समृद्धवपुषा नेत्रोत्सवः पश्यतां सर्वेणाऽपि शिवङ्करोऽसि भगवन्! स्याद्वाददीपात्मकः ॥१॥
ननु सोऽत्र तीर्थकरो नास्ति अस्ति वेति वाच्यम् । नास्तीति चेत्, न । देवासुरनराणां तत्पूजायां साक्षात् प्रवर्तनात् । न खल्वविद्यमानः कश्चित् पूजयितुं शक्यते । अस्तीति चेत् । साधारणो विशेषितो वा ?। साधारण इति चेत्, तस्य सर्वोत्कृष्टताख्यातिव्याघातः । न च लोके सामान्योऽपि महिमानमाप्नोति । अथ विशेषित इति, तदा सर्वज्ञोऽसर्वज्ञो वा । असर्वज्ञ इति चेत्, तदयुक्तम् । कथमन्यथा "केवलवरनाणदंसणे समुप्पण्णे' इति वाक्यश्रवणं स्यात् ?। सर्वज्ञ इति चेत्, परदुःखान्यसौ हर्तुमलं न वा ?। नेति चेद्, वञ्चितं जगत् । को हि नाम स्वार्थसिद्धि विनाऽप्यपरं सेवेत ?। कथं वा "तिन्नाणं तारयाणं बुद्धाणं बोहयाणं" इत्यादिपदसमाधिलाभः ?। अथ दुःखहर इति चेद्, देशतः सर्वतो वा?। देशत इति चेद् अवान्तरसामान्यतैवाऽस्य । दृश्यन्ते च द्रविणारोग्यादिदायिनोऽत्रापि बहवो देवाः । तथा च सति "नमोत्थु देवाहिदेवाणं" इत्यादेविफलता स्यात् । सर्वदेवेभ्योऽधिकं दीव्यन्तीति देवाधिदेवा इति निरुक्तिसिद्धेः । सर्वत इति चेत्, अद्याप्येते वयमनादिसंसारि(र)कान्तारेऽपि कथं पर्यटाम: ?। यदि नाम प्रत्यक्षमस्मदादीन् पीडितानपि जानन् पश्यन्नसौ नहि सुखयितुं प्रभवति, तदा "अयमेव जिनो देवस्त्रैलोक्यपरमेश्वर" इत्यादेः फल्गुतैव काचित् । नहि स्वयं दरिद्रोऽपि 'धनपाल' इति लोकैराहूयमानस्तात्त्विकं धनपालत्वमापततीति ।
अथ निजत्वापेक्षया तत्समाधिरिति चेद्, 'आत्मेश्वर' इत्येतावतैव योग्यता स्यात्, किमर्थं पुनः परमः प्रकृष्टश्चासावीश्वरः समर्थश्च इति भ्रान्ति(न्त)शब्दप्रयोगः ?। न च गृहमात्रेश्वरस्य नगरेश्वरत्वं श्रूयमाणं भवतीति ।
अत्र प्रतिविधीयते – यदेतदनन्तानामेव प्राणभाजां नरकनिगोदादिभवभ्रमणदुःखजालं तत् तेषामेव तथाविधस्वयंसिद्धस्वभावदूषणं, अप्राप्तसामग्रीकत्वेनाऽपात्रत्वात् । अथवा साध्विदमुच्यते -
न हि तीर्थकराऽदृष्टं किञ्चनाऽप्यत्र भावि मे । योग्यताना(म)न्तरेणापि किञ्चनाप्यत्र भावि मे ॥१॥ .
अथाऽस्त्वेवं, तथाप्यस्य मेघस्येव सर्वत्र वर्षणं युज्येत, न च तथा श्रूयते । अनार्यखण्डेषु स्वयमगमनात् साधूनां च तद्गमनप्रतिषेधशासकत्वात् ।