________________
मार्च - २०१६
खाधोऽसावजकालियारिहरिणव्याधैः समं कर्मसी( पीडिता-) मामोघौघरवाघवारणपदं मन्दाकिनी वः क्रियात् ॥२६॥ जिन! त्रिजगतः पूज्यः, मुदा त्वां सत्क्रियावलीः ।
अत्र गुप्तक्रियाकर्तृ-विज्ञाने वार्षिकोऽवधिः ॥२७॥ * आवट्- आययौ । ई:- लक्ष्मीः ।।
निरन्तरमवन्त्वेते, वोऽवो धर्मपरायणान् ।
अत्र कर्तृपदं गुप्तं, विलोक्यं सुविचक्षणैः ॥२८॥ अव:- अर्हत्-सिद्धा-चार्योपाध्यायाः ॥
केशा: कजालिकासाभाः ओकारारिपिनाकिनः । विविगोगतयो दद्युः, शं वोऽब्जाम्बुनगौकसः ॥२९॥ विनिर्जितत्रिपूणीह, यशांसि यदि वाञ्छसि । तदा सुभटरोमाञ्ची-शतपत्रमटेरणं ॥३०॥ गोकर्णराडाभरणं यदीयं, यद् गंव्यहव्यादजमाददाह ।
कुम्भेनंचूडामणिरायुगान्तं, पायादपायादुरात्मजाधः ॥३१॥ [1. वासुकिः, 2. गव्यहव्याद:- वह्निः, 3. कामदेवं, 4. कुं- पृथ्वी, 5. नक्षत्रपतिश्चन्द्रो मुकुटो यस्य सः, 6. उ:- शिवः, 7. अगात्मजा- पार्वती, साऽधं यस्य सः ॥ (सुभाषितसुधारत्नभाण्डागारे)]
दूरं नर्मदयात्रपावनरतामार्ताघनाशोच्चयाहंसाली कमलं विलोक्य तमसाविद्रागमत्वाविलम् । कासेनाऽऽकुलितासनोभवतया शक्त्यामयी तत् कथं
जायेत स्पृहयालुरेतदधिकः कौ नौ भवत्यादरः ॥३२॥ ॥ इति विषमव्याख्याकाव्यानि क्रिया-कर्तृ-कर्मगुप्तानि || शुभं भवतु ||