SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६९ पण्डितस्य सदा पापं, संसारपरिवर्धनम् । जिनेन्द्रस्तवने यस्य, तस्य जन्म निरर्थकम् ॥३॥ १. स्य- क्षिप । २. यस्य- यत्नं कुरु । ३. तस्य- त्यज ॥ युधिष्ठिरसभामध्ये, दुर्योधनः समागतः । तस्मै काञ्चन-रत्नानि, वस्त्राणि च धनानि च ॥४॥ (अदुः) पम्पासरसि रामेण, सस्नेहं सविलासया । यत् कृतं सीतया सार्धं, तन्मे मित्र! निवेदय ॥५॥ (सस्ने) कुमारपालभूपाल', त्वमहो जीवरक्षणे । सभासमक्षमादिष्टं, गुरुणा हेमसूरिणा ॥६॥ १. अड उद्यमे । अल- उद्यमं कुरु ॥ तातेन कथितं वत्स!, लिख लेखं मदाज्ञया । 'न तेन लिखितो लेखः, पितुराज्ञा न लोपिता ॥७॥ १. नतेन- नम्रेण ॥ शरीरं विगताकार-मनुस्वारविवर्जितम् । यदिदं जायते रूपं, तत्ते भवतु सर्वदा ॥८॥ श्रीः ॥ आलिङ्ग्य मन्दिरे रम्ये, 'सदानन्दविधायिनि । कान्ता कान्तं कुरङ्गाक्षी, कुम्भिकुम्भपयोधरा ॥९॥ १. असत्- अक्षिपत् गृहमध्ये ॥ मधुमत्तमयूरस्य, प्रस्थे माल्यवतो गिरेः । सीताविरहसन्तप्तं, रामं मुहुरमूमुहत् ॥१०॥ (सीता) त्वमिह रुचा' मदनसखो, लंड भीतिप डी विविधबहुविहगे । सरसि सरोरुहसंचय-विलम्बिरोलेम्बरमणीये ॥११॥ १. कान्त्या कामसदृशः । २. लल- क्रीड, क्रीडां कुरु । ३. हे भीतिप!- हे राजन् । ४. लीना विविधा- अनेके बहवो विहगा:- पक्षिणो यत्र- यस्मिन् । ५. रोलम्बा:- भ्रमराः ।। अम्बरमबुनि पत्रमरांति:*, पीतमहीनंगणस्य ददाह६ । यस्य वधूस्तनयं गृहमर्जा', पातु से वो शिवलोचनवह्निः ॥१२॥
SR No.520570
Book TitleAnusandhan 2016 05 SrNo 69
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy