SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १६ वसुधाया- धात्र्याः, सुधेव, सुधा क्षीरं तत्तुल्या, मधुरत्वातिशयेन, विशेषेण धृतिः - समाधिर्यस्य तस्य सम्बोधनं; तथा अधृता - अधारिता, यां - लक्ष्म्याम्, ए:- कामस्य वा धृतिर्धारणं येन तस्य सम्बोधनं है अधृतेधृते!, पुनः कीदृग्? मायाया:- कौटिल्यस्य, विलयो- बिनाशो यस्याः सा तथा लयं - शुक्लध्यानविशेषम्, आ- समन्ताल्लाति- गृह्णाति या तादृशी या - लक्ष्मीर्यस्या: सा तथा, ध्यानग्राहिश्रीरित्यर्थः; शेषं प्राग्वत् ॥१०॥ इच्छामि नो सुरपतेः पदसम्पदोऽहं चक्राधिपस्य पदवीमदवीयसीं वा । श्रीसोमसुन्दरगुणास्तरितेल ! देया वामेय ! मे निजपदाम्बुजरेणुसेवाम् ॥११॥ अनुसन्धान- ६९ ॥ इति श्रीपार्श्वजिनयमकबद्धस्तवनं समाप्ततामाप्तम् || आनन्दसौभाग्यगणिनाऽलेखि श्रीमहिषदुर्गे । ज्येष्ठ शु. ५, गुरौ ॥ अ.प्र. : इच्छामीति । हे श्रीसोमसुन्दरगुणास्तरितेल ! - श्रिया युक्तः सोमःपार्वणादिचन्द्रस्तद्वत्सुन्दरा ये गुणास्तैरास्तारिता आच्छादिता, इला- पृथ्वी येन तस्य सम्बोधनम्, अहं त्वद्भृत्यः, सुरपतेरिन्द्रस्य, [ पदं ] - द्वात्रिंशदादिलक्षविमानाधिपत्यं तस्य [सम्पदः ] - श्रियो, नो इच्छामि तथा चक्राधिपस्यचक्रवर्तिनोऽदवीयसीमासन्नां द्वात्रिंशत्सहस्रमितमुकुटबद्धराजाधिपत्यादिरूपां वा [पदवीं], वामाया राज्ञ्या अपत्यं वामेयस्तस्य सम्बोधनं, मे मम स्वभृत्यस्य, निजपद एवाऽम्बुजे- कमले, तयो रेणुः- परागस्तत्सेवामेव केवलां देयादद्याः, इत्येवाऽहं समीहे इत्यर्थः ॥११॥ ॥ इति श्रीयमकबद्धश्रीपार्श्वनाथस्तववृत्तिरक्षरार्थप्रकाशिनी समाप्ता ॥छ । पण्डितश्रीपण्डितशिरोमणि पं. श्रीविवेकसागरगणिभिः कृतेति ॥ * * *
SR No.520570
Book TitleAnusandhan 2016 05 SrNo 69
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy