________________
मार्च - २०१६
वा यस्य शाश्वतकत्वान्नीरुजत्वाच्च सः तथा, संवरः- इन्द्रियादिसंवरणं, तस्य भूः- उत्पत्तिस्थानं, तथा भूर्जन्म, तन्न विद्यते यस्य सोऽभूः, तं भजेति प्राग्वत् ॥७॥ कामं विलासं कमलामला मला-नोदा विधत्ते सकला कला कला । आश्चर्यकृत् ते विगदाऽऽगदागदा, पार्वं भजे राजगृहे गृहे गृहे ॥८॥ अ.प्र. : कामं विलासमिति । हे विगद!- गदादिशस्त्ररहित!, ते- तव, आश्चर्यकृद्- विस्मयकारिणी, कला- प्रशस्ता, सकला- निरवशेषा, कलाज्ञान-विज्ञानादिरूपा, काममत्यर्थं, विलासं- सर्वविषयावच्छेदकत्वेन लीलां, विधत्ते- तनोति, किंविशिष्टा कला ? कमलवन्नीरजवत्, कमलयासर्वतोमुखलक्ष्म्या वा, अमला- निर्मला; तथा मलं- पूर्वभवसञ्चितं कर्म, तस्याऽऽनोदः- क्षपणं यस्यास्तादृक् सदुपदेशादिदातृत्वात् सा, तथा आसमन्ताद्, गदा- रोगास्त एव दुर्भेद्यत्वादगा:- पर्वतास्तान् द्यति- छिनत्तीति आगदागदा- रोगहारिणीत्यर्थः; शेषं प्राग्वत् ॥८॥ त्वां सद्विवेकं जनता नताऽऽनता-रातिं नितान्तं विमतामता मता । संसारसंहारकृतेऽकृतेकृते!, पार्वं भजे राजगृहे गृहे गृहे ॥९॥ अ.प्र. : त्वां सद्विवेकमिति । हे अकृतेकृते!- अकृता ए:- कामस्य, कृतयो- विकारा येन तस्य सम्बोधनं, जनता- लोकवृन्दं, सद्विवेकंप्रधानचातुर्य, त्वां नता- नमस्कृतवती नितान्तमित्यर्थः, कस्मै ? संसारोभवस्तस्य संहारः- संहरणं, तस्य कृते- तदर्थं; कीदृशं त्वाम् ? आनताआक्रान्तत्वेनाऽरातयो- बाह्याभ्यन्तरवैरिणो यस्य तं, कीदृशी जनता ? विमतान्यभिप्रेतानि, अमतानि- कुत्सितमतानि [यस्या] यया वा सा तथा, पुनः किंभूता ? मता- सर्वेषामभिमता, सन्मार्गानुसारित्वादित्यर्थः ॥९॥ तन्तन्ति मोदं वसुधासुधाऽसुधा-रकस्य ते गीविधृतेऽधृतेधृते! । वामेय! मायाविलया लयालया, पार्वं भजे राजगृहे गृहे गृहे ॥१०॥ अ.प्र. : तन्तन्ति मोदमिति । हे वामेय! वामाया अपत्यं वामेयस्तस्य सम्बोधनं, ते- तव, गीर्वाणी, असून्- प्राणान् धारयतीत्यसुधारकः प्राणी तस्य- जन्तुजातस्य, मोदं- हर्ष, तन्तन्ति- भृशं तनुते; किंविशिष्टा गी:?