________________
अनुसन्धान-६९
अ.प्र. : यं- त्वामेत्य- प्राप्य, सौजन्यसम्पत्- स्वजन्यसम्पत्स्वजनतासम्पत्तिर्मते- अर्थात् तव शासने, रमते- विलासान् करोति । अमताऽनभिमता ई:- राज्यलक्ष्मीरि:- कामो वा यस्य सम्बोधनम् - अमते!; किंविशिष्टाऽसौ ? वैराग्यभङ्गी- ज्ञानगर्भादिप्रकारं करोतीति; तादृक् श्रीसर्वज्ञसौजन्यं दृष्ट्वा बहूनामपि वैराग्यं भवतीत्यर्थः; पुनः कीदृक् ? अरयोरागादयस्तेषामीर्लक्ष्मीः स्फीतिर्वा, तां दृणातीति अरीदरी, श्रीणां- स्वर्गापवर्गसम्पदां, दरी गुहास्थानमित्यर्थः; अमरा- देवास्तेषु तार:- प्रधानस्तस्य सम्बोधनंहे अमरतार!, तायां- भवानुबन्धिलक्ष्म्यामरता- अनासक्ता, विशेषणमिदं सौजन्यसम्पदां, तं पार्वं भज इति प्राग्वत् ॥५॥ स्तोतुं भवन्तं विबुधा बुधा बुधा-दयो यमीशाऽऽविनया नयानयाः । दधुर्न शक्तिं धरधीरधीरधी, पार्वं भजे राजगृहे गृहे गृहे ॥६॥ अ.प्र. : स्तोतुं भवन्तमिति । [हे ईश!-] हे स्वामिन्! यं भवन्तं- त्वां, स्तोतुं- स्तुतिविषयीकर्तुं, विबुधा- देवाः, शक्तिं - सामर्थ्य, न दधुरधार्युः, कीदृशाः ? बुधाः- पण्डिताः विशिष्टावध्यादिज्ञानसम्पन्नाः, पुनः कीदृशाः ? बुधादयो- बुधो नाम ग्रहस्तत्प्रभृतयः, पुनः आ- समन्ताद्, विनयो- विनीतता येषां ते तथा, नयान्- सन्मार्गानानयन्ति- प्रापयन्ति जनान् ते तथा, धरःपर्वतस्तद्वद् धीरा- निश्चला, धी:- बुद्धिर्यस्य तस्य सम्बोधनम्, अधि अधिका, ई:- समवसरणादिलक्ष्मीर्यस्य तस्य सम्बोधनम्, अथवा तं पार्श्वमहं भजे, अहं कीदृक् ? अधी:- बुद्धिविकलः ॥६॥ . तृष्णातुरे सिद्धिरमाऽऽरमार! मा-योज्जासकोऽसत्समरोऽमरो मरोः ।। त्राता कलेः संवरभूरभूरभूः, पार्वं भजे राजगृहे गृहे गृहे ॥७॥ अ.प्र. : तृष्णातुरेति । हे सिद्धिरम!- सिद्धौ सिद्ध्या वा रमो रमणं- विलासो यस्य तस्य सम्बोधनम्, अरीणां समूह आरं, तन्मारयतीति आरमारस्तत्सम्बोधनं हे आरमार!, यस्त्वं कले:- कलियुगादेव, मरोनिर्जलदेशात्, त्राता- रक्षिताऽभूःअभवः, कस्मिन् ? तृष्णा- लोभतृड्, आतुरे- पीडिते, त्वं कीदृक् ? मायाकौटिल्यं, तामुज्जासयति- विनाशयतीति तादृक्; तथाऽसन्नविद्यमानः, समरःसङ्ग्रामो यस्य सः तथा, अमरो- देवोऽथवा न विद्यते मरो- मरणं मरकमाद्यं