SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ मार्च - २०१६ औषधीनां प्रसिद्धः; ई:- श्रीः शोभा वा, तद्वती; मतयो- मत्यादिज्ञानानि, ता आनन्दयन्ती उल्लासयन्ती; पुनः कीदृशी ? इनस्य- सूर्यस्य इनानां- राज्ञां वा मता:- पूज्या, न मतान्यमतानि- विचाररहितत्वात् कुमतानि, तान्यमतान्यनभिप्रेतानि यस्याः सा, तमवृजिनं- निष्पापं जिनं- रागादिजेतारं, पाशवं भजे इति पूर्ववत् तुर्यं पदं व्याख्येयम् ॥२॥ मुक्तेरधाद् यं सुमनोमनोमनो-रथावहाऽस्तारधराधरा धरा । मनोम्बुजेऽसानुशयाशयाऽऽशया, पार्वं भजे राजगृहे गृहे गृहे ॥३॥ अ.प्र. : मुक्तेरधादिति । हे सुमनोमनोमनोरथावह!- सुमनसो- देवा विद्वांसश्च, तेषां यानि मनांसि, तेषां ये मनोरथा- अभिलाषविशेषास्तानावहति- पूरयतीति तथा; तथा हे असानुशयाशय!- अनुशयः क्रोधस्तेन सह वर्तते यः स सानुशयस्तादृगाशयश्चित्तं यस्य स तथा, न तादृशः निःकषायचित्तस्तस्य सम्बोधनं; मुक्तेर्मोक्षस्य, यमकादिषु व्यस्तसम्बन्धेऽप्यदोषादाशया- अभिलाषेण, धराधरणी- प्रजाः; मनोम्बुजे- चित्तकमले, परमात्मस्वरूपतया यं- त्वामधाद्अधार्षीत्; कीदृशी धरा ? अस्तोऽरीणां- बाह्याभ्यन्तरवैरिणां समूह आरं, तदेवाऽतिदुर्भेद्यत्वाद् धराधरो- गिरिर्यया संक्षिप्तवैरिपर्वतेत्यर्थः । शेषं पूर्ववत् ॥३॥ वाणी कृपाणीक्षुरसाऽरसा रसा-नन्दा यदीयास्यभवाऽभवाऽऽभवात् । आस्ते तरीवेतिवनेऽवनेवने, पार्वं भजे राजगृहे गृहे गृहे ॥४॥ अ.प्र. : वाणी कृपाणीति - हेऽभव!- निस्संसार!, यदीयास्यभवा- यस्यतव मुखजाता, वाणी- वाक्, ईतिवने- ईतयोऽतिवृष्ट्यादयस्ता एव वनंजलं, तत्र तरीव- उडव इवाऽऽभवात्- भवपर्यन्तमास्ते; तथा [हे अवन! हे रक्षक!], इ:- कामः, स.एव वनं लतावृन्दं, तत्र कृपाणी- शस्त्रीव चाऽऽस्ते; कथम्भूता ? इक्षुवन्मधुरो रसो यस्याः सा तथा, पुनः कीदृक् ? न विद्यते रसः- शृङ्गारादिर्यस्या सा तथा, रसाया- धरित्राया, आनन्दो- हर्षो यस्याः सकाशात् सा तथेत्यर्थः ॥४॥ सौजन्यसम्पद् रमते मतेऽमते!, वैराग्यभङ्गीकृदरीदरी दरी । श्रीणां यमेत्याऽमरतार! तारता, पार्वं भजे राजगृहे गृहे गृहे ॥५॥ तत्र तत्र तरीव- उडम एव वनं लताव
SR No.520570
Book TitleAnusandhan 2016 05 SrNo 69
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy