SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १२ अनुसन्धान-६९ श्रीगुरुभ्यो नमः ॥ यो भ्राजसेऽतान्तिरभीरभीरभी-मान्तोऽघसचे वरवी रवी रवी । मोहान्धकारेष्ववनीवनीवनी, पार्वं भजे राजगृहेऽगृहेगृहे ॥१॥ अक्षरार्थप्रकाशिनी : यो भ्राजसेऽतान्तिरभीरभीरभी-मान्तोऽघसर्प वरवी रवी रवी - इत्यस्य यमकस्तोत्रस्याऽक्षरगमनिकोच्यते । तथाहि - 'हेऽगृह!- न विद्यते गृह- वेश्म कलत्रं वा यस्य सोऽगृहो मुनिस्तस्य सम्बोधनं, हे पार्श्व! तं, यत्तदोनित्यसम्बन्धात् त्वां राजगृहे नाम नगरे वर्तमानमहं भजे- सेवे; किंविशिष्टे राजगृहे ? ई- लक्ष्मीः (तस्या) गृहमिव गृहं- स्थानं, तद्रूपे, अथवा वीप्सायां गृहे गृहे- प्रतिगृहं; तं कमित्याकाङ्क्षायामाह - यो भ्राजसे- शोभसे, किंरूप: ? तान्तिर्व्यथा न विद्यते यस्येति सः; पुनः कीदृक् ? अभीर्न विद्यते भी(तिर्यस्य स तथा, पुनरभितः समन्तत ई:- समवसरणादिर्लक्ष्मीर्यस्येति सः, अभीमा:सौम्या अन्ता- मुखाद्यवयवा यस्याऽथवा भीयं, मा- लक्ष्मीस्ते उभे न विद्यते येषां तेऽभीमा- गणधरादयस्तेऽन्ते- समीपे यस्येति सः, अथवा भीर्भयं, माश्रीरन्तो- मरणं, एतत्त्रयमपि नास्ति यस्य स तथा । पुनः कीदृक् ? वरविर्वरउत्कृष्टो वि:- पक्षी, सर्वपक्षिप्रधानत्वाद् गरुडः, स इव सः, कस्मिन् ? अघंपापं, तदेव चातुर्गतिकसंसारविषमूर्छाजनकत्वात् सर्प इव सर्पो- भुजङ्गः; तत्र पुनः किंविधः ? रविरिव रवि:- सूरतुल्यः, केषु ? मोहो- द्विविधमोहनीयकर्मप्रकृतयस्ता एवाऽन्धकारास्तिमिराणि, व्यामोहजनकत्वात्, तेषु रवणं रवोशब्दस्तद्वान्, योजनगामिवागित्यर्थः; पुनः कथम्भूतः ? अवनी लक्षणया धरित्रीस्थाः प्रजा, सैव वनी- काननसमूहस्तत्र वनं- जलं दानार्थमस्याऽस्तीति वनीजलदस्तत्तुल्य इत्यर्थः ॥१॥ भद्रौषधीसानुमतीमती मती-रानन्दयन्तीनमताऽमतामता । मूर्तिर्जयेत् तेऽवृजिनं जिनं जिनं, पार्वं भजे राजगृहे गृहे गृहे ॥२॥ अ.प्र. : भद्रौषधीति । हे पार्श्व! यस्य ते- तव, मूर्तिराकृतिविनीलौ मल्लिपाश्वौं इति वचनात् साम्याज्जिनं- कृष्णं, जयेच्छ्यामत्वातिशयेन तिरस्कुर्यात्; कीदृशी मूर्तिः ? भद्राणि- कल्याणानि, तान्येवाऽऽर्तिर्गदस्तन्निवर्तकत्वेनौषध्यस्तासु, सानूनि- शिखराणि विद्यन्ते यस्यां सा सानुमता- गिरिभूरिव, गिरिभूमौ
SR No.520570
Book TitleAnusandhan 2016 05 SrNo 69
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy