SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६९ च वृद्धेरभावात् प्राकटीदिति । एत् - "डीयश्व्यैदितः क्तयो"रित्यनेन इडभावार्थः । तथा ओत् - "सूयत्याद्योदित" इत्यनेन क्तयोर्नकारार्थो, यथा उत्पूर्व 'ओविजैप् भयचलनयोः', विज्, क्ते इडभावे क्तस्य नत्वे क्तादेशस्याऽसत्त्वाद् विजो जस्य गत्वे पश्चात् नब्-योगे चाऽनुद्विग्नेति । औत् - "धूगौदित" इत्यनेनेड्विकल्पार्थो, यथा 'मुहौच् वैचित्र्ये' तृचि तृनि वा गुणे नञ्-योगे इटि पक्षे "मुह दुहे"ति हस्य घत्वे तुर्धत्वे घस्य गत्वे चाऽमोहितरमोग्धृ चेति । ____ अनुस्वारः - "एकस्वरादनुस्वारे" इत्यनेनेडभावार्थो, यथा 'ष्टुंग्क स्तुतौ", ष्टु तस्य स्तु, भविष्यन्ती स्यते, तथा ‘णींग् प्रापणे' "पाठे धात्वादेर्णो न" तृचि, इत्युभयोऽभावे गुणे च स्तोष्यते नेतरिति च । गुणाभावार्थो, यथा 'ऋक् प्रापणे', ऋ, प्रत्यये तथा – 'प्रीगण तर्पणे', प्री, "नाम्युपान्त्यप्रीकृगृज्ञः क' इति के, प्रत्ययस्य कित्त्वाद् गुणाभावे "संयोगा'"दितीयि च ऋत प्रियेति च । खः “खित्यनव्ययारुषो प्रोन्तो हुस्वश्चे"त्यनेन मागमार्थो, यथा प्रियङ्करेति। ग "ईगित" इत्यनेनाऽऽत्मनेपदार्थो, यथा प्रात् 'श्रींग् सेवायां' श्रिग्, कर्तरि कान-प्रत्यये द्वित्वादौ च प्रतिशिश्रियाण इति । घः "क्तेऽनिटश्चजोः कगौ घिती''त्यनेन कत्वगत्वार्थो, यथा, 'रञ्जी रागे', रञ्ज, रज्यतेऽनेन व्यञ्जनादिति करणे घञ्, “घञि भावकरणे' इति न्लुकि, 'वचं भाषणे', वच्, "ऋवर्णव्यञ्जनाद् घ्यण्" घ्यणि, उभयत्र प्राग् वृद्धौ गत्वे कत्वे च राग वाक्यं चेति । डा "इङितः कर्तरि" इत्यात्मनेपदार्थो गुणाभावार्थश्च, यथा 'सेवृङ् सेवने' इति [], तथा 'ऋति घृणागतिस्पर्धेषु', ऋत्, "ऋतेर्डीय" इति गुणाभावे क्तादौ च [सेवेत] ऋतीयितेति च । जिः "ज्ञानेच्छाचार्थाञ्जीच्छील्यादिभ्यः क्त' इत्यनेन सति क्तार्थो, बस्तु वृद्ध्यर्थो, यथा उत्पूर्वो 'जिफला विशरणे', फल, क्ते "अनु० फुल्लोत्फुल्ले"ति निपाते चोत्फुल्लेति, 'सं गतौ', सृ, "सर्तेः स्थिरव्याधिबलमत्स्ये' इति घजि वृद्धौ च सारेति । अत्र सर्वत्र साधनिकाविस्तरः स्वयं ज्ञेयोऽनुबन्धफलमात्रप्रकटनार्थत्वादस्या, एवमग्रेऽपि ॥ * * *
SR No.520570
Book TitleAnusandhan 2016 05 SrNo 69
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy