________________
मार्च - २०१६
त्वदमोग्धृ-त-प्रियङ्कर-प्रशिश्रियाणा-ऽपराग-वाक्यं यः ।
सेवेतैष ऋतीयितविपदाऽऽपोत्फुल्लसारद्धिम् ॥४॥
अव. - त्वदित्यादि । त्वत्सम्बन्धि न मुह्यति न शास्त्रार्थे विपर्यस्यतीत्यमोग्धृ । अत एव धातूनामनेकार्थत्वात्, ऋतं- सत्यं प्रियङ्करं- हितं, "उपसर्गेण धात्वर्थो बलादन्यत्र नीयते" इत्युक्तेः प्रशिश्रियाणं- प्रशान्तमपरागं- नीरागं च वचो यः सेवेत । एष जन ऋतीयितविपदा प्राप्तव्यसनः सन्नुत्फुल्लसारर्द्धिस्थिरसम्पदम् आप- लेभे इत्यर्थः ।
'अमोग्धृत' इत्यत्र "ऋतो वा तौ [च" इत्यनेन] ऋता सह ऋदेव । न च 'प्रशिश्रियाणे'त्यत्र रेफसंयुक्तेन पकारेण ------ पादादिस्थितरेफसंयुक्तव्यञ्जनेन प्रागुक्तायोगात् "अल्पव्ययेन -- ग्राम्यजनो मिष्टमश्नाति" इत्यादावपि तथादर्शनात् । ' अथोदाहरणानि - आत् - "आदित" इति सूत्रेण क्तयोरादौ इट् निषेधात्(र्थः)। यथाऽत्र 'जिमिदाच् स्नेहने', मिद्, अकर्मकत्वाद् “गत्यर्थाकर्मके "ति कर्तरि "ज्ञानेच्छार्चार्थाजी"दिति सति क्ते इडभावात् क्तस्य दस्य च नत्वे 'मिन्ने'ति । इत् - 'इङितः कर्तरी"ति सूत्रेण कर्तरि आत्मनेपदार्थो, यथा ‘एधि वृद्धौ', एध्, आत्मनेपदित्वादानशि शवागमे च 'एधमाने'ति । ईत् - "ईगित" इत्यनेन फलवति कर्त्तर्यात्मनेपदार्थो, यथा 'भजी सेवायाम्', भज्, वर्तमाना ते शवि 'भजते' इति । उत् - "उदितः स्वरान्नोऽन्तः" इति नागमार्थो, यथा [नन्दन्....] । ऊत् - "ऊदितो वे"ति क्त्वादौ इट्विकल्पार्थो, यथा 'असूच क्षेपणे', अस्, क्त्वायां विकल्पादिटि चाऽस्त्वा असित्वा चेति । ऋत् - "उपान्त्यस्याऽसमानलोपे शास्वृदितो डे' इति डे परे णौ उपान्त्यहस्वाभावार्थो, यथा 'क्रीड़ विहारे', क्रीड्, णिगि अद्यतन्यां "णिश्री०"ति डे द्वन्द्वाद्वौ च (द्वित्वादौ च) प्रागहुस्वाभावादचिक्रीडत् इति । ऋत् - "ऋदि०" इत्यनेन विकल्पेन डों, यथा "विजूंकी पृथग्भावे", विज्, अद्यतन्यामङि पक्षे सिचि वृद्ध्यादौ चाऽविजदवैक्षीच्चेति । लुत् - "लुदिद्युतादी"त्यङर्थो, यथा "गम्लुं गतौ", गम्, अद्यतन्यामङि चाऽगमदिति । [एत्-] "व्यञ्जनादेर्वोपान्त्यस्य" इत्यनेन सूत्रेण प्राप्ताया अपि “न विजा० म्येदित" इत्यनेन वृद्धिनिषेधार्थो, यथा प्रपूर्वः 'कटे वर्षावरणयोः', कट्, अद्यतन्यां सिचि "इट ईति" सिलुगादौ