________________
अनुसन्धान-६९
"अकारः सर्वत्र उच्चारणार्थः" । यथा अत्र 'असक् भुवि, वर्तमाना मिवि 'अस्मी'ति ॥१॥
अथ प्रस्तुतस्तुतिमाह - मिन्नेधमानमुद् यो, भजते नन्दन् भवन्तमस्त्वाऽन्यत् । विष्णुमसित्त्वा तम-चिक्रीडच्छीर्नाऽविजच्चाऽस्मात् ॥२॥
[अवचूरिः] - मिन्नेत्यादि । स्निह्यद्-वर्धमान-हर्षो यः कश्चित् गर्हितापरव्यापारं अस्त्वा- क्षिप्त्वा त्वां भजते, तं नरं श्रीलक्ष्मीविष्णुं स्वप्राणप्रियं असित्त्वा- मुक्त्वाऽचिक्रीडत्- व्यलीलसदिति । ननु यथा स्वप्राणेशं मुक्त्वा श्रीरमुं नरमचिक्रीडत्, तथाऽमुमपि मुक्त्वा कदाचिदन्यः कश्चित् क्रीडितो भविष्यति इत्याह - नाऽविजत्- तस्मान्न पृथगभूदित्यर्थः ।
इह हरिप्रिया-सम्पदोरभेदेन उपन्यासः "कमला-सम्पदोः कामध्वजे मकर-मत्स्ययो"रित्यादिना तथाप्रतिपादनात् । भजते' इत्यत्र वर्तमानापरो निर्देशो भगवतो मुक्तिप्राप्तत्वेन साक्षादाश्रयणायोगेऽपि मनसाश्रयणे यो मित्यर्थ व्यक्तार्थः । 'अचिक्रीड'दित्यत्र अतीतत्वेन निर्देशः चेदविनयं भजसि तर्हि दु___ष्यो जात एवेत्यादाविव भजननैरन्तर्येणाऽवश्यफलसद्भावख्यापनार्थः । एवं सपि (?) स्वयं ज्ञेयम् ॥२॥
न च भजनमेव फलवदपि तु स्तवनमपीति तत्फलमाह -
नेन्दोर्यदवैक्षीज्जगदगमच्च प्राकटीत् तदस्य यशः ।
योऽनुद्विग्नमनास्त्वा-ममोहित! स्तोष्यते नेतः! ॥३॥
[अव०] - नेन्दोरिति । नेत:- स्वामिन्! । न मुह्यतीति हे अमोहित! - मूढतामुक्त!, [अनुद्विग्नमना:-] अभग्नचेता यस्त्वां स्तोष्यते, तस्य जनस्य तद् यशः प्राकटीत्- प्रकट्यभूत्, यद् इन्दोश्चन्द्रसकाशान्नाऽवैक्षीदै ल्येन नष्ट थगभूत्(?), जगत् कर्मतापन्नमगमच्चाऽव्यापच्चेति सोऽभूत् स्तुतिकर्तुः स्वात्मनि यशःप्रकाशनादनौचित्यं स्तुतेरुपलक्षणमात्रत्वं च । न च स्तुतिकाल एव यशःप्रादुर्भवोऽपि तु तदभिप्रायेण प्रागपीति ज्ञापनार्थं च स्तोष्यते इत्यत्र भविष्यन्तीपरो निर्देशः ॥३॥
भजन-स्तुत्योरभावे भगवद्-वाक्याऽऽराधनं विफलमाह -