________________
मार्च - २०१६
गौतमस्वामिस्तुति: (अनुबन्धफलगर्भा)
- सं. पं. अमृत पटेल
[व्याकरणशास्त्रमा अनुबन्धो- घणुं महत्त्व छे. धातु साथे जोडायेला अनुबन्धो, ते ते चोक्कस परिस्थितिमां चोक्कस कार्य- सूचन करतां होय छे. आवा अनुबन्धोने लीधे थयेला धातुप्रयोगोने क्रमशः समावती अने ओ द्वारा श्रीगौतमस्वामीनी स्तुति करती एक व्याश्रय प्रकारनी रचना अत्रे प्रकाशित थई रही छे. रचनाना अने तेना पर रचायेली अवचूरिना कर्ता अज्ञात छे. अवचूरिमां पहेलां स्तुति विशे विवरण अने त्यारबाद अनुबन्धो अने ते अनुबन्धोथी सर्जाता स्तुतिगत प्रयोगो अंगे छणावट छे. लालभाई दलपतभाई विद्यामन्दिर, अमदावादनी लादभेसू ७३१७ क्रमाङ्कनी १ पत्नी पञ्चपाठी प्रत उपरथी प्रस्तुत कृतिनुं लिप्यन्तरण थयुं छे. प्रत सं. १५१५मां श्रीमेरुरत्न गणिना शिष्य श्रीसिद्धान्तसुन्दर द्वारा लखाई छे. प्रतनी Xeroxना अभावमां श्रीअमृतभाईना महदंशे अशुद्ध लिप्यन्तरणना आधारे यथामति सम्पादन-संशोधन कर्यु छे...
श्रीवर्द्धमानशिष्याग्रणी-महिमाधाम गौतमाह्वगुरो! ।
अनुबन्धफलश्लोकै-स्त्वामज्ञोऽपि स्तुवन्नस्मि ॥१॥ अवचूरिः - अस्या अवचूरिलिख्यते । यथा - हे गौतमाह्वगुरो!, अनुबन्धानामकारादि-हपर्यन्तानां यत् फलं, तदाधारत्वेनाऽऽधारस्य आधेयोपचारात् फलमेव ये प्रयोगास्तेषां तैर्वा ये श्लोका वृत्ति(त)विशेषास्तैः कृत्वा, त्वामज्ञोऽपि स्तुवन्नस्मि इति योगः । अत्र 'वर्धमानशिष्याग्रणी'रिति पदं श्रीवीरस्येव श्रीगौतमस्याऽपि स्तुत्यहतां प्रतिपादयति । 'महिमे'त्यादि तु यदज्ञोऽप्यनन्तगुणं भगवन्तं स्तोतुं शक्नोति, तत्र भगवानेव हेतुरित्यर्थं व्यनक्ति । तथा 'श्लोकै रिति पदं प्राय आर्यानिबद्धायामप्यस्यां •स्तुतौ न दुष्टं, "भवइ य इत्थ सिलोगो, पेहेइ हियाणुसासण"मित्यादावपि तथादर्शनात् । अथवा बन्धवृत्तरचना अनु- लक्षीकृत्य ये फलभूताः श्लोका यशांसि, तैर्हेतुभिरित्यर्थव्यक्तेः । न च यशसां काव्यफलभूतत्वमयुक्तं, "काव्यं यशसेऽर्थकृते" इत्यादिवचनात् । अथाऽनुबन्धाः -