SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६९ मम चैव मनो मनोभवो, व्यथते हन्त! मनोभवोऽपि सन् । इव वंशजकृष्णवर्त्मनः, कियदाख्यामि ततोऽस्य दो(दौ)ष्ठवम् ॥२१॥ शमयाऽमुमनन्तवीर्यभा-गनुकम्प्यो भवताऽस्मि चेदहम् । इयदेव कृपाफलं पुन-र्न च वेदत्रयवेदनोदयः ॥२२॥ युग्मम् ॥ अवगाढचरा मुहुर्मया, सह मिथ्यात्वचिरत्नशत्रुणा | : .... भवसन्ततिराशु हीयतां, हितकृन्नाथ! तव प्रसादतः ॥२३॥ अयि मोहमयोऽपि रोचते, प्रियतुभ्यं खलु मे त्वदाश्रयः । विरसे लवणाम्बुधावपि, स्फुरति स्वादुरसं जलं क्वचित् ॥२४॥ तव पादतलावलम्बनं, विषया माऽग्रहिषुः कदाऽपि माम् । यदमीभिरभीरुमायिभिः, सरलोऽहं बहुशः प्रलोभितः ॥२५।। मनसा सममिन्द्रियाणि ते, स्मरणात् पारग! वारयन्ति माम् । विषयानुकमेव कुर्वते, कुरु यत्नं कमपीह तद् द्रुतम् ॥२६॥ . हियतेऽप्यथ यत्नरक्षितं, घनसारोपमितं मनोऽस्थिरम् । मिरिचैरिव ते गुणस्मृति-प्रतिबन्धैर्विधिवद् बधान तत् ॥२७॥ अनुकम्प्य निवर्तयाऽऽश्रवान, जिनप! ख्यापय संवरीति माम् । । त्वरितं पुनरन्यसङ्गमाद्, विरतं तात! विधेह्यतः परम् ॥२८।। त्वयि चैव विधाय धारणा-मनुभूयाऽऽत्मगुणान् महारसान् । अवदातमवाप्नुयां यथा, वररत्नत्रितयं तथा ननु ॥२९॥ अधिकृत्य पदित्रयाङ्किता-न्यथ तत्त्वान्यपरोक्षमानतः । प्रतिमः परमेष्ठिना कदा-ऽहमपश्यामिति(?) मे मनोरथः ॥३०॥ अथ चेत् पृथुलाः प्रतीक्षसे, मम काश्चित् खचिता भवस्थ(स्थि)तीः । तदपि दृढ(द्रढि)मानमानया-ऽद्भुतसम्यवक्त्वधनं स्वसिद्धये ॥३१॥ सफलीकुरुतान् ममाऽर्थनां, हरतात् पापमथाऽपि दुर्गत(तिम्) । दिश देव! दयापरेप्सितं, परमाधार! नमो नमोऽस्तु ते ॥३२॥ इति हृदयगताभिलाषमाख्यत्, प्रथमजिनं विमलाचलं पुनानम् । जिनपतिचरणाब्जचञ्चरीकः, कविरचनामुपदाय रूपचन्द्रः ॥३३|| ॥ इति विज्ञप्तिद्वात्रिंशिका समाप्ता ।। || शुभं भवतु || श्रीः श्रीः ॥
SR No.520570
Book TitleAnusandhan 2016 05 SrNo 69
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy