________________
अनुसन्धान-६७
व्यामोहाद्यैश्च किञ्चित् सुरभिसुरमुखा वाञ्छितानि प्रयच्छन्त्येतैर्भावविना त्वं सदखिलफलदः कीर्त्यसे केन तुल्यः ॥२३।। उच्चै राज्यादिदानात् कलिकलुषमलक्षालनात् तामसानामुच्छेदाद् विघ्नभेदात् त्रिदशपतिकरस्पर्शनाद्दर्शनस्य । हेतुत्वात् सस्यसूर्याधुदयफलपदस्वर्जनज्ञानभूत्त्वाद्धत्ते नाभेयदेव! प्रभुपदयुगलीगौरवं गौरवे हे ॥२४॥ एवं श्रीगुरुसोमसुन्दरगुणस्तोमप्रशस्तो मया, भक्त्या श्रीमुनिसुन्दरत्वसुलभध्यान: किमप्यानुतः । श्रेयः श्रीजयचन्द्रचारुयशसां दाता भवेन्मे सदा, पुष्याइलउलावतंसऋषभः सद्बोधिलाभोदयम् ॥२५।।
इति श्री युगादिदेवस्तवनम् ॥
जून - २०१५
नो चेद वः क्षितिरुद् भविष्यति यतो जागर्ति तत्राऽधुना, देवो युष्मदमन्दवृन्दकदलीकन्दैकदावानलः ॥१७।। मन्ये त्वच्चरणारविन्दयुगलस्याऽऽलिङ्गिभिः काञ्चनाम्भोजैनित्यनवत्वधारिभिरिदं चेतस्विनां सूच्यते । यस्या (येऽस्य) प्रास्तजरं पदं प्रददतः सेवारसे व्यापृताः स्युस्तेषां न इव प्रणष्टजरसां नित्यं नवत्वस्थितिः ॥१८॥ शक्तः सैव वरप्रदेश उचितं शोषाय दोषाम्बुधः, सर्वासां समयः स एष समयः सम्पद्वधूनां युतौ । मित्रत्वं च रवेरवैमि दिवसे तत्रैव सत्पात्रयं(?) ये दध्युः सहकारितां मम चिराशास्ये प्रभुप्रेक्षणे ॥१९॥ त्वद्धर्मागममर्मवर्मघटनाभाजां भिदि प्राणिनां, प्रत्यूहाः प्रभवन्ति नाऽन्यस(म?)तिनां पुंसां किमत्राऽद्भुतम् । त्वन्नामाऽपि रमापिकप्रणयिनी माकन्दमानन्दतः सत्त्वानां जपतां न ते हि निकटेऽप्यायान्ति दिव्या अपि ॥२०॥ स्वाज्ञाछत्रतले निवेश्य विपुले मुक्ताकलापोज्ज्वलैः, संस्नाप्य प्रसरन्निजानणुचराः क्षीराब्धिनीरोच्चयैः । चण्डाल: कलिकाल एष निखिलक्ष्मापालमालाधुरिख्यातेनाऽद्य युगद्विजस्य भवता पङ्क्ताविहाऽध्यासितः ॥२१।। श्रीमद्देलउलावतंस! वृषभ! स्व:-कुम्भ-रल-द्रुमाद्या द्वाषष्टनयाशयाद्यदि परं भिन्नार्थतां बिभ्रति । इत्थं ये विदुरा न तेऽत्र विदुरावाञ्छावृषस्तत्परं श्रेयश्चाऽऽदिमनामतोऽपि हि परैर्वाञ्छाऽपि नाऽथैरपि ॥२२॥ भ्रामं भ्रामं निकामं कपिचपलतया यत्तदोक: सुलोके, श्रान्तेव प्राच्यमुच्चैः क्षमयितुमिव वा स्वाङ्गजस्याऽपराधम् । प्रायश्चित्तार्थिनीव क्वचिदपि यदि वाऽपायहेतुत्वभावानित्यं लक्ष्मीर्यदंही शरणमरचयत् स श्रिये नाभिभूर्वः ॥२३॥ दैन्योक्त्या रोहणादिः खरमुखरतरं पुष्करावर्त्तमेघा, वृक्षा वेलाविलम्बात् परिणतिविरसं चापि भद्रा गजेन्द्राः ।