________________
जून २०१५
नो चेद् विष्टपवाञ्छितार्थघटनव्यङ्ग्ये विभुत्वेऽप्यसावेतां मूर्तिमणीयसीमपि तवाऽध्यास्ते समस्तः कथम् ||३|| श्रुत्वा देलउलाललाम! भगवन् नंधादिको द्(?) भावि त्वन्महिमैकडिंडिमडमत्कारं जगत्प्राङ्गणे । अंधांकैकरचिल्लभानि (?) सुदृशां स्पर्द्धान्नुभानां (?) दिवस्त्वामाराद्धमुपागमन् सुममिषात् तत् [ सद् ? ] गुणप्राप्तये ||४|| श्रीनाभेय! भवाटवीभ्रममहातापच्छिदि त्वद्वपुःकुण्डे मानवदेवदानवगणैर्नेत्राम्बुजायं जलम् । लावण्यामृतसञ्चयः प्रतिकलं पेपीयमानोऽपि नो यत् क्षीयेत तदत्र चित्रकलता नूनं जटा जृम्भते ॥५॥ कुर्युः कर्मसमग्रमुग्रमनिशं मिथ्यादृशो दर्शनश्राद्धर्षि-क्षपकादयस्तनु तनु तेभ्यः क्रमाद् यावता । सिद्धाः कर्ममुचः प्रभुः स च नयः स्यात् कर्मकृत् तद् ध्रुवं, यावान् जन्तुषु ते मते परिचयस्तावान् प्रभुत्वोदयः ||६|| ध्यातारस्तव यद् भवन्ति सषदि छत्रस्फुरच्चामरश्रेणीहेममहासनादिमहिमारूढाः किमेतन्नवम् । यत्तेषामधिचित्तभूमि समवासार्षीः प्रभुस्तस्य च, छत्राद्यन्वयि सन्ततं जिनपतेः स्युः प्रातिहार्याणि यत् ॥७॥ सान्द्रानन्दरसप्रणम्रशिरसः स्व-र्भूर्भुवो भाविनो, जातास्त्वच्चरणारुणांशुनिचयैः श्राक् ताम्रचूडाः समे । यज्जल्पन्ति च ते तदा तव नुतिं तत् सूचयन्ति ध्रुवं, मिथ्याभावविभावरीविरमणान्मुक्तिप्रभातागमम् ॥८॥ पद्माभां दृशमन्धतां विबुधतां जाड्यं जगज्जैत्रतां, दैन्यं चेति नवं नवं बहुविधं भक्तेतरेषु क्रमात् । तन्वाने भवतो महिम्नि विमदः प्राच्यस्वसर्गच्छिदालज्जातो विजयाय नाभिकुहरे धाता हरेल्लीनवान् ॥९॥ युक्तं निष्प्रतिमप्रभावभवनस्नात्रोदकं तावकं,
सद्यः सिद्धरमत्वमेति दधते यद् धातवोऽस्य ह(दु ? ) तम् ।
४१
४२
अनुसन्धान-६७
स्पर्शेणा (ना)ऽपि सुवर्णतां तनुमतां कृष्णादिरूपा अपि, स्वामिन्! किन्तु नवं भवन्ति यदि नो मुक्तामया अप्यमी ॥१०॥ संसारार्णवलङ्घनक्षममहापक्षोऽन्तरायस्फुरद्व्यालालीकवलीकृतेरविकलत्रैलोक्यरक्षाऽभयः । युक्तं काश्यपगोत्रगौरव! परस्त्वं [स्वर्ण]कायः परं चित्रं यत्पुरुषोत्तमैर्निजहदाऽऽमोदासदाप्यूहसे || ११|| यद्यप्यस्त्यधुनातमाऽत्र नितमामुद्यत्तमा दुःषमा, निद्रान्ति स्म चयात्मिका अपि मणीमन्त्रौषधद्धर्यादयः । हंहो ! विघ्नमलिम्लुचाश्चरत मा स्वैरं तथाऽपि प्रभुयज्जागर्ति युगादिदेव! महिमा युष्माकमूष्मापहः ॥ १२॥ ध्यानोद्दामबलेन सौवचरणप्रासादमुद्राद्रुहौ, रागद्वेषमहाद्रुमौ द्रुतमपि प्रोन्मूल्य यौ मूलतः । शक्तिं तच्छिदमिच्छतां तनुमतां ज्ञीप्सुर्न्यधादंसयोः,
स्पष्टं त्वत्कजटाजटाकपटतः कष्टं स भिन्द्यात् विभुः ||१३|| यावत्केवललक्ष्मिपक्ष्मलदृशां स्वीकर्तुमुत्कण्ठितो, राधावेधमिवैष साधयति ते ध्यानं महानन्दभाक् ।
एनं बाल्यकुमित्रवत् स्मरसुखास्तावत्क्षणात् क्षोभयन्त्यध्यक्षं किमुपेक्षसे तत इमान् कारुण्यभूस्त्वं प्रभुः ||१४|| किं रुष्टा ? वद, दृ(दु?)ष्ट पृच्छसि नु किं मूर्ध्ना सपत्नीं वहन् ?, मा लोकोक्तिषु देहि देवि! हृदयं देल्लुल (ल्ल) के यत्प्रभोः । स्नात्राम्भस्तदिदं समस्तसुखदं दध्वं तदाम्ये ( मेs) प्यदः, श्रुत्वेतीशसतीवचस्त्वयि न कः शैवोऽपि सेवोत्सुकः ? ॥ १५ ॥ विश्वस्याऽप्युपकारकारणतया षड्दर्शनीवादिनः, सर्वे देउलापुरे भगवतो भक्तौ विवादं जहुः । तेषामत्र मुदा सदाऽपि युगपद् यात्रार्थमागच्छतां, नेतुः स्नात्रविधावहंप्रथमिकारूपस्त्रयं (स्त्वयं) दुस्तरः ||१६||
हे रोषप्रमुखद्विषः! स्मृतिपथं प्राप्या कथा जाम्बुकी,
सूत्रे भाविनि मा पुनर्विशत नः प्राग्वद् विशङ्कं हृदि ।