________________
जून - २०१५
अनुसन्धान-६७
अव्यङ्गान् पत्रपूर्णान् विविधसुरवधूदत्तहस्तान् मनोज्ञान् भक्त्या लोकैकभर्तुः क्रमयुगलपुरो ढोकयाम: फलादीन् ॥७॥ फलपूजा ॥ मिथ्यात्वध्वान्तराशेर्नवतरणिनिभं श्रेयसां धाम चित्रं मित्रं सन्मुक्तिलक्ष्म्यास्तरुणमणिशिखासोदरं भाप्रभूतम् । रम्यं विश्वकभर्तुश्चरणयुगपुरः प्राज्यपूर्ण मनोज्ञं संसाराम्भोधिभीताः परमविनयतो बोधयामः प्रदीपम् ॥८॥ दीपपूजा ॥
पूजाष्टकवृत्तानि ॥
विविधबुधप्रभाप्रध्वस्तास्तोकतमश्चक्रं स्वर्णवर्णप्रभापूर्णत्रिविष्टपं कमण्डल्वक्षमालोपेतं जिनाभिषेकोत्सवे बृहस्पतिदेवमाह्वानये ॥५॥ ४ शरदभ्रशुभ्राभ्रोदरशशधरकरनिकरसोदारहारनीहारक्षीरनीरडिण्डीरकाशपुष्पप्रकाशसंकाशयशःप्रसरसोदरं अनेकदक्षयक्षरक्ष[कीना] शाक्षौहिणीनमदखिलमौलिमालालङ्कृतचारुचरणयुग्मं शुभ्रनेपथ्यं जिनाभिषेकोत्सवे शुक्रमाह्वानये ॥६॥ ४ सजलजलदनीलालिपटलगवलघनकज्जलतमालश्यामलं करतलपरिकलितचण्डाखण्डलोहदण्डाघातघातितसकलविश्वान्तर्वर्तिप्राणिचक्रं रक्तान्तर्वक्रोग्रकरनेत्रं जिनाभिषेकोत्सवे शनैश्चरदेवमाह्वानये ॥७|| ४ सजलजलधराटोपदोषातमस्तोमभ्रमभ्रमरसोदरं अभिनवेन्दुकलाकोटिविकटनतोन्नतदंष्ट्राकरालव्यात्तवक्त्रवि [जिह्वा(?)गलल्लोललालानिकरं जिनाभिषेकोत्सवे राहुदेवमाह्वानये ॥८॥
कृशानो ... ठा(?)लिव्यालगवलाञ्जनमरकतेन्द्रनीलहरगलतमालध्वान्तव्यूहप्रतिम कालिन्दीपयःसोदरोदारभुजगेन्द्रस्फारफणातपत्रं चलन्नूपुरारावकिङ्किणीरवोत्तालव्याकुलितासुरसुन्दरीवृन्दवन्दितोदारस्फारचरणपीठं मेचकाम्बराभरणभूषितविग्रह जिनाभिषेकोत्सवे केतुदेवमानये ॥९॥
इति नवग्रहााननम् ॥
श्रीनवग्रहाह्वाननम् ॥ तरुणोग्रतरकरविसरप्राग्भारप्रहि(ह)ताशेषदोषतमस्काण्डाडम्बरं विविधनमदमरमुकुटतटकोटिहठघटितसुखसद्मपदपद्मपीठलुठन्मन्दारपुष्पप्रकरं जिनाभिषेकोत्सवे सूर्यदेवमानये ॥१॥ ४ अमितहरहसितघनदुग्धदधिपिण्डनवशङ्खवरहंसमणिहारनवतारसुरश(स)रित्कल्लोलसद्यशःप्रसरसोदरं निस्सीमपवित्रचित्रनक्षत्रमण्डलीपुरस्सरखेचराधीश्वरं शिशिरमयूषं जिनाभिषेकोत्सवे चन्द्रदेवमाह्वानये ॥२॥ ४ वरदरदजपकुसुमबन्धूककिकिल्लिनवकुसुमसिन्दूरसन्ध्याभ्रतडिल्लेखासमानस्फुरदनलक्रूरनेत्रज्वलदनलज्वालाजालजटिलं रक्तालङ्कारं दरदलितपद्ममणिकिरणप्रवालचञ्चत्करकमलकलिताऽक्षमालकमण्डलुं जिनाभिषेकोत्सवे मङ्गलदेवमाह्वानये ॥३॥
प्रवरसिद्धगन्धर्वामरखचरकिन्नरेन्द्रनमदमरशिरः स्रस्तामन्दमन्दारमकरन्दलुब्धमत्तालिकुललुठितपादपीठस्थलं नाशापटोभर्यात(?)प्रदत्तपवित्रनेत्रेन्दीवरसरोजासनस्थाङ्गीकृतज्ञानमुद्रोत्तरयोगीन्द्रं जिनाभिषेकोत्सवे बुधदेवमाह्वानये ॥४|| ४ प्रवरप्रणतसुरविसरशिरोरत्नसंघघृष्टचरणनखकिरणनिकरविरचितेन्द्राखण्डकोदण्डं