________________
४०
त्वदग्रे नरीनर्त्ति देव! स्वभक्त्या,
वरीवर्त्ति सौख्येन्दिरा तं स्वशक्त्या ||९||
न याचे विना त्वां स्फुरद्देवतद्धि,
तथा स्वर्णरूप्यादिनिश्शेषसिद्धिम् । परं प्रार्थयेऽहं प्रभो! बोधिलाभं,
शिवश्री परीरम्भसँल्लग्नकामम् ॥१०॥ विभो ! दुःख- दौर्गत्य- दौर्भाग्यहर्त्ता,
ध्रुवं जीवलोके मनोऽभीष्टकर्ता । तथा स्पष्टर्दुष्टाष्टकर्मोघभेत्ता,
जय त्वं युगादिवि (प्र) भो! विश्ववेत्ता ॥ ११ ॥ मया त्वत् परः प्रापि नो कः कृपालुः,
प्रभो! त्वं नुतो नाऽस्म्यतः संशयालुः । अशंसीतिभावे भवेत् स्वामिभक्ति
स्ततो मुक्तिसार्द्धं न मे का- विभक्तिः ? ॥१२॥ कथा श्रीमतां स्वप्रशंसानिवासः,
स गोपालसङ्घाधिपः श्रीविलासः । षट्बन्धुनाऽस्थापि येनाऽऽदिमूर्त्ति
किन्तु स्फुरन्मूर्त्तिमत्सौवकीर्त्तिः ॥१३॥
सुधानिर्मितेवाऽस्ति मूर्त्तिस्त्वदीया,
अनुसन्धान-६६
प्रभो! मन्यते शुद्धबुद्धिर्मदीया ।
न चेज्जन्मकोट्यर्जितः पापताप:,
कथं क्षीयते दर्शनात् सप्रतापः ||१४|| निवासं हृदि त्वं यदा मे विधास्ये ( विधत्से ?), तदाऽहं प्रभो! निर्मलत्वं प्रयास्ये । कथं जीवलोके स्थिरं स्थातुमीष्टे,
तमश्चक्रवालं सहस्रांशुदृष्टे ||१५||
सदा धीवरैः सेवितत्वात् समुद्र
स्त्वमेवाऽस्यहो मौक्तिकश्रीद्धभद्रः । .