________________
म
फेबुआरी - २०१५ अपाप:* परं वर्त्तसे कौतुकं तत्,
ततोऽप्याश्रितस्तार्यते चित्रमेतत् ॥१६।। मदक्रोधकन्दर्परोगाद्यनर्था
स्त्रिलोकीतले वैरिणो ये समर्थाः । तव ध्यानमात्रेण ते यान्ति नाशं, . मृगाः सिंहनादाद् यथा निःप्रकाशम् ॥१७॥ मयाऽद्य प्रभो! चिन्तितार्थप्रदायी,
समासादि चिन्तामणिः सातिशायी । अतः संश्रयन्ते विभो! मे समग्राः,
पराः सम्पदः सर्वभावादुदग्राः ॥१८॥ पदाम्भोरुहे संश्रिते संसृतौ ते,
निमज्जन्ति किं भव्यमाः समे ते । महासागरे यानपात्रोपयुक्ताः,
__ कथं पोतवाहाः पतन्त्यर्थयुक्ताः ॥१९॥ स्वभक्त्या प्रभुं त्वां बुधा ये स्तुवन्ते,
दुरापं शिवश्रीसुखं ते लभन्ते । न किं प्रार्थितः पारिजातोऽर्थिजातं,
कृतार्थं विधत्ते कदा निःस्वतार्तम् ॥२०॥ जगत्यां जगत्सृष्टितो विश्वकर्ता,
तथाऽजत्त्व(जोऽस्य)तस्त्वं प्रभो लक्ष्मिभर्ता । विभो! शङ्करः संस्कृतेविद्यसे त्वं,
.. समग्रार्थसार्थोक्तितः सर्ववित् त्वम् ॥२१॥ मम त्वं गुरुस्त्वं सुहृत् त्वं च माता,
मतिस्त्वं गतिस्त्वं धुतिस्त्वं च नेता । यशस्त्वं रतिस्त्वं धनं त्वं जनेता,
प्रपन्नोऽस्म्यहं त्वामतो मुग्धचेताः ॥२२॥ । अपगता आपो यस्मात् स अपापः, समुद्रोऽप्यपाप इति विरोधः, अ-पाप इति तत्समाधानम् । - सं०