________________
फेब्रुआरी - २०१५
३९
तथाऽप्यद्भुतस्वीयभक्तिप्रयुक्तः,
स्तुवे त्वां विभो! मुग्धभावाभियुक्तः ॥२॥ भवाब्धि तरीतुं तरीशल्प(?)कल्पां,
तवाऽऽज्ञां बरीभर्ति यो निर्विकल्पाम् । वरीवर्त्ति तं स्वीकृतेवाऽत्र लक्ष्मीः, .. सरीसर्ति तस्य स्फुटं कीर्त्तिलक्ष्मीः ॥३|| महामोहयोगेन पूर्वं गरिष्ठं,
न लब्धं क्रमाब्जं विभो! ते वरिष्ठम् । अतः क्रोध-कन्दर्प-लोभादियोधाः,
प्रभो! ही निमज्जन्ति मां ध्वस्तरोधाः ॥४॥ स्फुरद्भक्तिरागेन यस्तोष्टुवीति,
तथा कोऽपि कोपात् पराबोभवीति । इयं ते नुतिस्तत्र चेतःप्रवृत्तिः,
समाशोभते पापपङ्क्तेनिवृत्तिः ॥५॥ भृशं सेविता मुक्तये जीवलोके,
___ हराद्याः समर्था मया नाऽवलोके(?) । अलं याचिता देवरत्नस्य बुद्ध्या,
सुखं दातुमेते स्तवः किं त्रिशुद्ध्या(?) ॥६॥ स्मृतिर्यस्य जन्मौघकोट्यर्जितानि,
छिनत्ति क्षणादप्यहोऽघानि तानि । विभो नाऽचि नाऽनावि नाऽध्यायि स त्वं,
मुधा हारितं तेन ही मानुषत्वम् ॥७॥ युगादौ युगादीश! सन्मार्गरीति
स्त्वया स्थापिता लुम्पिता कर्मभीतिः । ... अतस्त्वां प्रभुं देवदेवेशभावं,
प्रपन्नोऽस्म्हं त्यक्तरागादिभावम् ॥८॥ - प्रगे यश्चरीकर्ति तेऽर्चा विशुद्धां,
जरीहर्त्यसौ कश्मलालीमशुद्धाम् ।