________________
७६
अनुसन्धान- ६३
प्रयोक्तुर्जीवहिंसा भवति न वेति ?' अस्ति चेत् प्रयोक्तुः कर्मबन्धप्रसङ्गात् सूत्रस्थितविधेर्दोषत्वं दुष्परिहरणीयम् । अथ नाऽस्ति, आन्तरप्रयोगेऽपि सा न
यथा
भवती 'ति । अत्रोच्यते बहिः परिभोगमपि यद्यविचारपूर्वकं कुर्यात् तदा श्रीमदुक्तवद् हिंसादोषो भवत्येव । यस्तु रुजाऽऽर्तो मुनिर्वक्ष्यमाणप्रकारेण सम्यगालोचयेत् ‘‘ग्रन्थज्ञानावधारणे समर्था मे मतिः, लघुवयाश्चाऽहं तपःसंयमक्रियाभरं वोढुं समर्थो मे देहः, कुशलवैद्योपदिष्टश्चाऽयं रुक्छान्त्युपायः सम्भवति चोत्तरकाले मे ज्ञानाद्युपकारः, अत: सेवेय, तदनन्तरं गुरुदत्तप्रायश्चित्तमासेव्य शुद्धः स्या' ' मित्येवमालोच्याऽप्यासेवमानस्य किञ्चिद् दूषणं जायते; तथापि तन्निवृत्त्यभिमुखस्य पुनः कारुण्यपूरप्लावितहृदयत्वेन गुरूपदिष्टप्रायश्चित्तविधिना दोषफले प्रतिहते प्रत्युतोत्तरकाले ज्ञानादिवृद्धिर्भवितुमर्हतीति ।
नचैवं कृते काचित् सूत्रस्थविधेर्बाधा स्यात् पूर्वोक्तरीत्या सम्यगालोचनपूर्वकस्वीकारेण पिशितस्याऽनुपादानपरिणामित्वात् । अत एव पूज्यश्रीभिर्वृत्तौ पठितं यथा "ज्ञानाद्युपकारकत्वात् फलवद् दृष्ट' 'मिति । यदि चाऽस्य निष्कारणं सनातनीयो ग्रहणविधिर्जिनागमे भवेत् तदा ते नैवं वदेयुः ।
*[औचित्य ] प्रतिपालिनीं श्रीमतां परिणतिं विज्ञाय हर्षप्रकर्षं भजामः । औचित्यपालनमेव सौजन्यजीवनमिति । परन्तु तथाकथितेऽपि सूत्राभिप्रायबाधस्तु तदवस्थ एव । तत्तु नीत्युल्लङ्घनबीजम् । अतस्तन्निवृत्यै श्रीमद्भिर्द्वितीयावृत्ती स्वकृतानुवादे पिशितभक्षणपदं निष्कास्य बहिः परिभोगार्थः समर्थनीय इति।
अन्यच्च द्वितीयावृत्तिप्रकाशनेऽद्यापि विलम्बो भविष्यतीति तदर्थं यदि सम्प्रति कश्चिच्छ्रीमतां सम्बन्धि चतुष्पत्रकादिप्रकाशनं स्यात् तदा तस्मिन्नपि विवक्षितसूचना कार्या इत्येवंरूपाऽस्मद्याचितशीघ्रसमर्पणतः श्रीमतां यशःश्रीपाणिग्रहणोत्सव भरप्रसरोऽनिवारितोऽस्तु ॥
* *
अत्र काचन पाठच्युति: संभाव्यते ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org