________________
७४
अनुसन्धान-६३
विद्वद्वर्यैर्भवद्भिर्भुजिधातोरभ्यवहारार्थत्वं स्वीक्रियते, आचाराङ्गसूत्रस्थदशमोद्देशके हि प्रकरणवशाद् भोजनपानविधिप्रतिषेधयोः प्रस्तुतत्वात् चिकित्सादेरनुपयोगाच्चैतदसमीचीनं कुतश्चिच्चिकित्सादेः प्रस्तुतत्वं परित्यज्य भोजनपानविधिनिषेधयोरेव प्रस्तुतत्वाङ्गीकारे मानाभावात् तत् प्राज्ञपञ्चाननानां कीर्तिकाननं नवपल्लवनं करोति ? यतोऽधिकृतसूत्रस्य सर्वकालविषयत्वेन चिकित्सादेरपि प्रस्तुतत्वं न विवादास्पदं, सर्वस्मिन् काले सर्वमुनिसमुदाये किं सा न सम्भवति ? ।
यत: पृथक् चिकित्साप्रकरणं तु सूत्रे नोपलभ्यते तदानीन्तनमुनयोऽपि भोजनपानविधिनिषेधानुसारेण औषधादिगवेषणं कुर्वन्ति तद्वत् पूर्वमुनिव्यवहारोऽप्यनुमेयो भवद्भिरिति चिकित्साऽपि प्रस्तुतैव ।
न चैतत् स्वमनीषया प्रोच्यते, किन्तु दशमोद्देशके विवादास्पदीभूतसूत्रस्याऽऽदौ सूत्रकारेण स्यात्-पदस्योपस्थापितत्वाद् वृत्तिकृताऽपि तथैव व्याख्यातत्वाच्च बाह्यपरिभोगार्थोऽपि युज्यते । तथाहि सूत्रम् - "सिया णं परो बहुअट्ठिएणं० ति"। ___अस्याऽर्थः - स्यात्- कथञ्चित् कदाचित् कुत्रचिदित्यर्थः । इत्यनेन महत्काल-व्यवधानादिकं विदुषां सुलभम् । अस्य वृत्तिस्त्वेवम् -
"एवं मांससूत्रमपि नेयम् । अस्य चोपादानं क्वचिल्लूताद्युपशमनार्थं सद्वैद्योपदेशेन बाह्यपरिभोगेण स्वेदादिना ज्ञानाद्युपकारकत्वात् फ्लवद् दृष्टं भुजिश्चाऽत्र बहिःपरिभोगार्थे, नाऽभ्यवहारार्थे पदातिभोगवदिति ।" ___ तावत् साभिप्रायस्य वृत्तौ प्रोक्तस्य पदातिभोगरूपदृष्टान्तस्य स्पष्टीकरणमभिधीयते - पदाति:- सेवकः, सोऽपि मोदकादिवद् भोगशब्दवाच्योऽस्ति । यदुक्त-मनेकार्थसङ्ग्रहहेमकोशे - "भोगस्तु राज्ये वेश्याभृतौ सुखे धनेऽहिकायफणयोः पालनाभ्यवहारयोः ।" (काण्ड-२, श्लोक ५५-५६) यथा च भोगार्थमारूढे पदातिपदेऽभ्यवहारार्थः सर्वत्र परित्यज्यते, तथैव जिनागमे पानभोजनसाहचर्यादागते मांसादिविषयकभोगेऽप्यभ्यवहारार्थः सर्वत्र परित्यज्यते इत्येषा जैनशैली ।
एवं चैताभिः पूर्वोक्ताभिर्वृत्तिपङ्क्तिभिायनिकषणनैपुण्यभाजि श्रीमच्चेतसि मांसग्रहणे कादाचित्कत्वस्य प्रभूततमकालान्तरेऽपि निष्कारणानुपादानत्वस्य स्वीकारेऽपि बहिःपरिभोग्यत्वस्य चिकित्साप्रकरणानुविद्धपानभोजनविधिप्रतिषेध
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org