________________
जान्युआरी - २०१४
७३
वृत्तापरिज्ञानाद् । यद् गार्हस्थ्ये वर्तमाना अर्हन्तो न किञ्चिद् धर्मादिकं कस्मैचिदुपदिशन्ति, तेषां तथाकल्पत्वात् । सुप्रतीतमेतज्जिनागमे । तथा समवसृतावपि जिनदेशनाश्रवणात् केषाञ्चिदेव श्राद्धत्वं जायते, न सर्वेषां, प्रबलमोहोदयपारतन्त्र्यात् । तर्हि तेषां तु सम्बन्धिमात्रत्वेन कथं नाम श्राद्धत्वं संपद्येतेति दिक् ।
यच्च किन्त्वित्यादिना जैनमुनिसमाचारस्याऽनेकभावाश्रयत्वं श्रीमद्भिवितर्कितं तद् विहितोत्तरमि(मे)व, तथापि किञ्चिदभिधीयते । यथाऽधुनातनजैनसाधूनां कनककामिनीहिंसारम्भवर्जने विहारावश्यकभैक्ष्यशुद्धौ शास्त्रदृष्ट्या पूर्वमुनिभिस्सह भेदो न दृश्यते तद्वत् पानभोजनेऽपि स न सम्भावयितुं योग्यः, न्यायस्य सर्वत्र समानत्वात् साध्यैक्याच्च । सर्वेषां प्रवृत्तेराश्रयो मोक्षः । किञ्चैतयोः पूर्वापरकालीनमुनिवृन्दयोः अन्यस्मिन् सर्वस्मिन् कनककामिन्यादित्यागविहारावश्यकादिक्रियाकलापव्यवहारे समत्वं शास्त्रदृष्ट्या आवयोः सिध्यति तर्हि केवलं पानभोजनविषये तयोः वैरूप्यकल्पनमिति कौतस्कुती नीतिः ?
एवं च यत्र शास्त्रे पलाण्ड्वादिना संस्कृतभोजनग्रहणेऽपि प्रायश्चित्तमुक्तमस्ति, तत्र पिशितभक्षणस्य वार्ताऽपि क्व संभाव्येतेति ? ___ यच्चोक्तं - "एवं समाचारस्याऽन्यथाभावमापद्यमानत्वदर्शनात् कदाचित् कस्मिश्चित् पूर्वसमये मांसभक्षणं नाऽत्यन्तं निषिद्धमासीदित्यविरुद्धा कल्पने''ति । तत्र प्रायेण पूर्वोक्तसार्वकालीनसाध्वाचारैकतैव समाधिः । केवलं श्रीमद्भिः सहाऽस्माकं मांसभक्षणपदविषयैव विप्रतिपत्तिरस्ति । तद्विषयेऽग्रे वक्ष्यामः । मांसस्य भक्षणे त्वत्यन्तनिषेधो जिनागमेऽस्त्येव, परं कथञ्चित् कदाचिद् बहिः परिभोगार्थे स्वीकरणमुक्तमस्तीति । __यच्च प्रोक्तं - "किञ्च मांस-मत्स्यशब्दयो'रित्यादितः प्रारभ्य 'काव्यविषये बाहुल्येन दर्शनान्न तु जिनागमे' इत्यन्तं सम्बन्धः श्रीमद्भिः प्रोक्तोऽस्ति, तत् सत्यमेव । यत्तु तत्र विषये मुनिनेमविजयेन यद् हेमकोश-सम्मत्या प्रकृतसूत्रस्थ-मत्स्यशब्दस्य वनस्पतिविशेषावगमो निरणायि, तत् प्रामादिकमेवाऽवगच्छामः । कुतो महागम्भीराशयैः कण्ठगतप्राणैरपि नाऽन्यथाभिधायिभिः प्रकृतसूत्रवृत्तिकृद्भिः पूज्यश्रीशीलाङ्काचार्यैर्मत्स्यशब्दस्य वनस्पतित्वेनाऽव्याख्यातत्वादिति ।
यच्च भुजिरत्र बाह्यपरिभोगार्थे नाऽभ्यवहारार्थे वर्तते इत्येतद्विषये यद्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org