________________
जान्युआरी - २०१४
(१४) हे ना० [समा] किंभूता कर्मणां गतिः? "अकं पापे च दुःखे च' इति
विश्वः । अकानां- पापानामार:- प्राप्तिर्यस्यां सा अकारा ॥१४॥ (१५) हे अरजिन! 'ते' इति अध्याहारः । ते- तवाऽलिके- ललाटे मा न
वर्त्तते, अपि तु वर्त्तते । आ- समन्तात् "रसो गन्धरसे स्वादे, तिक्तादौ विषरागयोः । शृङ्गारादौ द्रवे वीर्ये, देहधातौ च पारदे" इति विश्वः । रसं- विषं मनातीति रसमः, एवंविध: आ- समन्तात् कः- प्रकाशो
यस्य, तत्सम्बोधनम् - हे असमाकः ॥१५॥ (१६) हे ना [नालिकेर!] समा(:) किं०? राजानः काराः, कराणां- दण्डानां
समूहा विद्यन्ते येषु ते काराः ॥१६॥ (१७) हे अलिक!- हे भ्रमर! इया- लक्ष्म्या राजते इति इरः, तस्य सं० -
हे इर!, समाकारश्चाऽसौ अश्च- समाकारा स्वयम्भूः, न वर्त्ततेऽपि तु
वर्त्तते ॥१७|| (१८) नस्य- ज्ञानस्याऽऽलिर्वर्त्तते यत्र, एवंविधो नालिकः, तस्मिन् नालिके,
हे ईर! समा- लक्ष्मीर्वर्त्तते । किंभूता? कारा- सुखप्राप्तिर्यत्र सा ॥१८॥ (१९) नस्य- सुखस्याऽऽलिर्वर्त्तते यत्राऽसौ नालिः, तस्य सम्बोधनम् । के
वायौ. रसस्य गन्धस्य मा- शोभा वर्त्तते, कारा- सुखप्राप्तिर्यत्र सा ॥१९॥ (२०) हे आलिके! कारा- गुप्तिगृहं वर्त्तते । किं०? रसानां- शृङ्गारादीनां मा
यत्र सा रसमा, एवंविधा न ॥२०॥ (२१) हे आलिके! शमिनः किंभूताः? अरः- शीघ्रः शमरूपो आकारो येषु
ते अरसमाकाराः । न, अपि तु भवन्ति, "अरः शीघेरचक्राण" इति
विश्वः ॥२१॥ (२२) हे नालिकेर! समाः किंभूताः(ता) वर्षा:? "करो वर्षोपले पाणौ, शुण्डा
प्रत्ययरश्मिषु" इति विश्वः । कराणां- करकाणां समूहो यासु ताः काराः
॥२२॥ (२३) हे नालिकेर! समाः किंभूता हस्तिनः? कराणां- शुण्डानां समूहाः(हा)
येषु ते काराः ॥२३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org