SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ धातुर्यत् सृजतो दृशां दशशतीं शत्रोर्धरित्रीभृतामासीत् कौशलमुत्तमं तदधिकं द्वन्द्वं भवन्नेत्रयोः । यत् पश्यन् स्पृशति क्षमां न हि स तैस्तावत्प्रमाणैरपि, त्वं तु श्रेष्ठरसावहां स्पृशसि तां तद्युग्मवानप्यलम् ॥३३॥ नाऽथैरर्थिमनोरथद्रुमजलैर्न स्मेरदृग्भिः स्मराऽहङ्काराम्बुसरिद्भिरादरघनाकाशैश्च दासैनहि । नोद्यानैर्मदमीननीरनिलयैः सा मुत् समुत्पद्यते, कूर्मीनेत्रतुलास्पृशोस्तव दृशोर्या सत्क्षणैरीक्षणैः ॥३४॥ नानाशास्त्ररतिस्मृतिस्मितदृशः 'संसक्तिरक्तात्मनां, तातानां पुरतः प्रयाति पृथुतां यत् किंवदन्तीरसः । शीतांशोः शिशिरात्मनामिव तमःशत्रोरिवाऽचिष्मतां, तेषां पुण्यजुषां व्रजे मम कदा. भावी प्रवेशः शिशोः ॥३५। राज्यं निर्जरकुञ्जरव्रजवरं सङ्गं समग्रश्रियां, . सम्भोगाभ्यसनं सरोरुहदृशां वैदग्ध्यमुच्चस्तरम् । यत् पुण्यं प्रददाति तत् प्रतिपदं शिष्टैरनुष्ठीयते, नो कुत्राऽपि तदस्ति येन भगवत्स्वान्ते क्षणं स्थीयते ॥३६॥ शास्त्रार्थाश्चरमाम्बुराशिसलिलप्रस्पर्धिनः सन्ति ये, तेऽपि प्रीतिमति त्वदीयहृदये सातेन तिष्ठन्ति चेत् । स्वामिन्! काममणीयसोऽप्यणुकणादुल्लासिलीलालये, तत् तत्रैव मम स्थितिं विदधतः का ब्रूहि सङ्कीर्णता ॥३७॥ जातं पातकजातकश्मलमलं कामं मदीयं मनो, *नैर्मल्यं श्रुतसिद्धसिन्धुसदृशात् त्वत्तोऽभिकाङ्गद् ध्रुवम् । नित्यं नाथ! भवन्तमेव भजति च्छायाच्छलादच्छलं, नेत्थं चेत् कथमर्चितस्य जगता श्यामा तवाऽप्यस्ति सा ॥३८॥ १. संसिक्तरक्ता० - अं० । २. तेऽपि प्रीतिमतस्तवोरसि मिथः सातेन - वि. । ३. जातकज्जलजलश्यामं मदीयं - वि. । ४. पूर्णेन्दोरतिशायिनी विशदतां वाञ्छद् भवत्सन्निधेः - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy