SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ ६१ सितं यन्नेत्रैर्निरवर्णयन्निरवधि द्वाभ्यां नु ताभ्यां प्रभो!, तत् त्वं पश्यसि वस्तु संस्तुतमतेविद्मः स्वरूपं न ते ॥२६।। तद् विद्वज्जनचित्तमत्तमधुपश्रेणीभिरासेवितं, स्वामिन्! श्रीसदनं त्वदीयनयनाम्भोजं स्तुमः सर्वदा । मत्वा पन्नगराहुवाडवभियं पातालचन्द्राब्धिषु, स्फारं यद् भयहृत् सुधा प्रतिदिनं तारामिषाद् भेजुषी ॥२७॥ विद्मः सद्म धियां स्थितिं वितनुते दौर्गत्यदावानल- '' ज्वालाजालजलं सुता जलनिधेस्त्वच्चक्षुषोः पक्ष्मसु । नैवं 'चेदिह पश्यतः सुरचने यं यं भवल्लोचने, तं तं मुञ्चति सत्वरं चकितवद् दौःस्थ्यं कथं 'सप्रथम् ॥२८॥ नौपम्यं सरसीरुहा सरजसा त्वन्नेत्रयोः स्फारयो~क्तू(ङ्क?)नां न कलावदङ्ककरणप्रह्वात्मनां जातुचित् । . अन्यत्राऽनुपलभ्यमेतदुपमादुःस्थे जगत्कोटरे, सादृश्यं स्तुवतां भवेत् तदनयोरन्योऽन्यमस्मादृशाम् ॥२९॥ दृष्टिस्ते पुरुषोत्तमप्रणयिनी प्रत्यक्षपद्मोपमा, बीजं नाऽजनि यन्मनोजनिजनेर्नाऽस्माकमित्यद्भुतम् ।। शस्ताशस्तसमस्तवस्तुविषयासक्तौ रजःसम्भवो, नैतस्यां हि समस्त्यपत्यजनने साधारणं कारणम् ॥३०॥ तीक्ष्णत्वं भृशमस्ति केतकदले तत्कण्टकैर्दूषितं, दर्भाग्रे च विराजते जगति तज्जातं कुजातत्वभृत् । तद्दीपानुगतं तनोति नितमां स्नेहस्य हानि हठात्, सुश्लाघ्यं श्रुतिसङ्गतिं बहु सृजत् त्वन्नेत्रयोस्तत्र किम् ॥३१॥ आकारं भवतो दृशोः पथि दृशोराधाय मेधाविनो, धातारं धुरि कीर्तनीयमसकृत् कुर्वन्ति मूढात्मनाम् । कालं कज्जलजालतोऽपि वहतोर्मालिन्यमन्तश्चिरं, यद् येन श्रुतिसंस्तवः समतया रम्योऽनयोः कारितः ॥३२॥ १. चेत् प्रतिपश्यतः - वि. । २. कथं निष्कथम् - वि. । ३. साम्यं नैव सदा प्रयान्ति पटवः कामं कुरङ्गा मृगा - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy