SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ६० व्यनक्ति वस्तु मुकुरः, पुरोगं त्वन्मुखं पुनः । भवद् भूतं भविष्यच्च, साम्यं स्यादनयोः कथम् ॥२०॥ हित्वाऽङ्कं यदि भजते, वलक्षोभयपक्षताम् । तदा त्वदाननेनाऽय-मेति साम्यं सुधाकरः ॥२१॥ काठिन्यजडवासित्व-दोषोल्लासित्वदूषिताः । त्वन्मुखेन कथं तुल्या, दर्पणाम्भोरुहेन्दवः ॥२२॥ यद् वृन्देन गवां तमोऽन्तमनयच्चक्रे च सच्चक्रदृग्, येनाऽऽनन्दवतीव येन कमलोल्लासः कृतः सर्वदा । 'पद्योल्लाससृजावमित्रमहसाऽऽश्लिष्टेऽपि यत्र च्छविस्त्वत्तुण्डं तुहिनांशुबिम्बमपरं शश्वत्कलाभासुरम् ||२३|| 'त्वद्वक्त्रेण परप्रकाशपटुना सर्वस्तमःसञ्चयः, शीतांशुश्च कलाधरत्वशुचिना ध्वस्तस्ततस्तावुभौ । मन्त्रं कर्तुमिवोद्यतौ स्वमषडक्षीणं मिथः सङ्गतौ, स्यादेको ह्यसुहृद् ययोऽरिह तयोरेकत्र मन्त्रस्थितिः ||२४|| यः सूते स्म महः परं प्रकटित: पुण्यात्मनां हृद्गृहे, चक्रे चाऽतुलकालिमानमनिशं पापात्मनामानने । सस्नेहात् सुदशादनिन्दितरुचेस्त्वद्वक्त्रदीपादभूदेषोऽशेषविशेषविद्विरचित श्लाघोदयो विस्मयः ॥ २५ ॥ ३न स्थाणुस्त्रिभिरष्टभिर्नवनिधिः स्कन्दो न सूर्यप्रमैविंशत्या न च रावणः क्रतुभुजां भर्त्ता सहस्रेण न । १. वि. प्रतावस्य श्लोकस्याऽन्त्यपादद्वयमित्थम् "त्वद्वक्त्रं तुहिनांशुबिम्बमपरं जज्ञे सुधामाऽपि यच्चित्राच्चित्रममुत्र मित्रमहसा श्लिष्टेऽपि यत्र च्छविः ॥" २. अस्य स्थाने वि. प्रतावयं श्लोकः --- Jain Education International "शङ्के कज्जलजालकालमसमं चिह्नच्छलेनाऽषडक्षीणं कर्तुमिहाऽगमद् हिमरुचेरन्तर्विषण्णात्मनः । त्वद्वक्त्रेण निरस्तमन्धतमसं विध्वस्तपूर्णेन्दुना, स्यादेको ह्यसुहृद् ययोरिह तयोरेकत्र मन्त्रस्थितिः ॥” वि. । ३. न ब्रह्माऽष्टभिरीश्वरो न दशभिः स्कन्दो - - अनुसन्धान- ६३ For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy