SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ अस्वप्नप्रमदा सदा 'वृषरतिर्मूर्तिः प्रभो! तावकी, नित्योल्लासिजया वयं सुमनसः२ प्रीतिप्रकर्षादराः । हंसाः पङ्कजिनीमिव स्मितमुखीमामोदनिस्यन्दिनीमुज्झामो यदिमां ध्रुवं न हृदयात् कस्तत्र चित्रोदयः ॥८॥ त्वन्मूर्तिः प्रशमिप्रभो! वसुमती सूते स्म यन्मङ्गलं, दध्मः सम्प्रति वक्रतां वयममी येनाऽतिचारोद्यताः । सम्बन्धस्थितिरत्र याति महती जानन्ति तां धीधना, वामाऽस्माकमियं तथाऽपि तनुते कामोत्सवं ब्रूहि तत् ॥९॥ एनां विश्वमनोमनोरथलताकन्दैककादम्बिनीं, त्वन्मूर्ति प्रविधाय वारिजभुवा निर्णीतिरेषा कृता । नो कर्ताऽस्म्यपरामतः परमदस्तुल्यस्वरूपामहं, नाऽऽरोहच्छ्वसोद्देशोश्च पदवीमस्माकमन्येदृशी ॥१०॥ शान्तत्वं श्रमणावतंस! भवतो मूर्तेरदः कोविदैश्चित्ते चिन्तितमातनोति "नितमामुच्चस्तरां विस्मयम् । वाग्देवीकमलालये जगति ये आजन्म वैरं श्रिते, ते अप्यत्र गते इमे गतरुषे जाते स्वसाराविव ॥११॥ पकिं लक्ष्मीः पुरुषोत्तमप्रणयकृत् किं पार्वती वामदृक्, किं ब्राह्मी कवितुष्टिकृत् किमु शची शश्वद्वेषानन्दभूः । पकिं प्रीतिः कमनप्रमोदसदनं किं पद्मिनी मित्रमुत्, त्वन्मूर्तिं प्रविधाय वर्त्मनि दृशोश्चिन्तामिमां कुर्महे ॥१२॥ शश्वत् तीव्रतराः कराः पितृपतिः पुत्रः सुता तत्स्वसा, सुतो वज्रिजिदग्रजः प्रतिदिनं पाणौ स्फुरत्केतवः । १. वृषमना मूर्तिः - वि.। २. सुमनसश्चाऽमी गुरोः किङ्कराः - वि. । ३. यच्चाऽतिचारोद्यताः - वि.। ४. नितमां दत्तस्मयं - वि. । ५. किं मैषा पुरुषोत्तमप्रणयदा - वि. । . ६. किं प्रीतिर्मदनाशिनी किमु रुचिर्मित्राशयोल्लासिनी - वि. । ७. वि. प्रतावस्य श्लोकस्याऽऽद्यपदद्वयमित्थम् - "भ्राता स्वर्द्विरदः सुतः पितृपतिः पुत्री कलिन्दात्मजा, छाया स्त्री कमलाकरश्च सवयाः सूतः सुपर्णाग्रजः ।" Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy