SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ स्वर्गे स्वर्गिगजच्छलाद् बलिगृहे भोगीन्द्रभोगच्छलाद्, भूभागे हिमवच्छलाच्च परितः क्षीराब्धिनीरच्छलात् । त्वत्कीर्ति प्रणिधाय चेतसि चतूरूपस्वरूपामिमां, पञ्चत्वं तदसूयये च तरसा प्रत्यर्थिकीर्तिर्ययौ ॥८७॥ तद्यानं यशसाऽभ्यनावि शुचिना वक्त्रेण तस्याऽऽननं, तत्पुत्रीनिकरैगिरां कविकलाकौशल्यतः स त्वया । तत् त्वां जेतुमना गुरोः पदमगात् स द्यामितोऽधीतये, नो चेदस्य कवेरपि प्रतिदिनं का लेखशालास्थितिः ॥८८॥ कामं कामघटान् मणेर्मखभुजां धेनोर्नभःसद्मनां, देवानां द्रुमतश्च शश्वदधिकां त्वत्कीर्तिमुश्मो वयम् । पूजोपास्त्युपहारसेवनगुणैस्तुष्यन्त्यमी मृदृषत्तिर्यग्दारुभवाः श्रुतैव यदसौ चाऽर्चा(ऽर्च्य?)श्रियां दायिनी ॥८९।। इति पं. हेमविजयगणिविरचिते श्रीकीर्तिकल्लोलिनीनाम्नि समस्तसुविहितावतंस-युगप्रधान-श्रीविजयसेनसूरीश्वरवर्णने कीर्त्यधिकारः। सौभाग्याधिकारः आनङ्ग्येन विडम्बितो हृदयभूरङ्केन शीतद्युतिः, पाथोजप्रभवः प्रजापतितया भानुस्तमोहत्तया । स्वर्भाणोरसुहृद् गदाकरतया शम्भुः शिवाराट्तया, केनाऽसावुपमीयते मुनिपते! मूर्तिस्तवैतादृशी ॥१॥ सौभाग्यं विषमायुधात् कमलिनीकान्तात् प्रभापीनतामैश्वर्यं गिरिजापतेः कुमुदिनीनाथात् कलाशालिताम् । माहात्म्यं धरणीधरान्मखभुजां गाम्भीर्यमम्भोनिधेरादायाऽम्बुजभूः प्रभुः प्रविदधे त्वन्मूर्तिमेतन्मयीम् ॥२॥ १. यशसाऽन्यभावि - अं. । २. धाता तत् स्वगुरोः पदं दिवमगान् त्वां जेतुकोऽधीतये - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy