________________
५४
अनुसन्धान-६३
एनां नाथ! मनोहरां प्रतिदिनं सर्वज्ञचित्तस्थितां, जानीते मधुसूदनो हृदि भवत्कीर्ति स्वजामि ध्रुवम् । विद्वांसः पुरुषोत्तमप्रियतमां जानन्ति चैनामिमे, किं सत्यः स च तेऽथवेति हृदयं दोलाधिरूढं हि नः ॥७५॥ कर्पूरोत्करपेशलासु महसां पूरैः प्रधानासु न, च्छिद्राणि प्रतिभान्ति भाग्यभवन! त्वत्कीर्तिमुक्तासु चेत् । हारीकृत्य कथं वहन्ति तदिमां हृद्यास्पदं सम्पदां, पाताले धरणीतलेऽमरकुले चैताः कुरङ्गीदृशः ॥७६॥ राशिस्त्वद्यशसां शशाङ्कविशदोऽनन्तः स्मृतः कोविदैरस्मिन् स्वैरविहारकारिणि पदं स्थैर्यस्य यद् दिग्गजाः । भूरेषा गिरयोऽप्यमी जलधयश्चैतन्महत्कौतुकं, स्थैर्यं मुञ्चति धारके किमु भवेत् स्थैर्यं हि धार्ये क्वचित् ॥७७॥ पद्मानन्दनिदानसुन्दररुचेर्जज्ञे जगच्चक्षुषः, सूनुस्ते यश एव देव! भजतश्च्छायामनन्यप्रियाम् । स श्यामो न शनैश्चरो न च न च क्रूरः पुनर्नाऽसमज्योतिष्कोऽजनि चेति चेतसि महच्चित्रं ममोज्जृम्भते ॥७८॥ त्वत्कीतिर्जयवाहिनी 'सुमनसां दत्तप्रमोदोदया, सञ्जाता विबुधेशसंस्तववशादापन्नसत्त्वा सती । एतस्याः सुरसार्थकैरवशशीसूनुर्जयो जातवांस्तन्मातापितृता जनेऽत्र विदिता युक्ता तयोरेव यत् ॥७९॥ जानीमो नवनीतमेव मृदुलं युष्मद्यशःपाण्डिमख्यातं. ख्यातिमतां महेन्द्रसरसाद् यद् गोरसाज्जातवत् । भङ्गोद्विग्नकुवादिवंशविसरोद्धर्षप्रकर्षोद्भव"त्वत्तेजोऽग्नियुते स्थितं न गलितं विश्वेऽद्भुतं तन्महत् ॥८०॥
१. दिविषदां संनाससञ्चारिणी - वि.।। २. स्तन्माता विबुधर्षभप्रियतमा चैषेति नः सम्मतम् - वि.। ३. यद् गोरसात् सम्भवत् - वि. । ४. ज्वालाजिह्वयुते - वि. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org