SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ विश्वानन्दनचन्द्रचन्दनमरुन्नीरैरपि प्रोच्छलंस्तापः शाम्यति वादिनां यदनया क्रोडीकृतानां न हि ॥६२॥ पण्यस्त्रीव भुजङ्गसङ्गमकरोद् गेहे बलेस्तस्थुषी, स्वर्गस्था च सुराभिषङ्गमसृजद् रम्भेव कीर्तिस्तव । नैषाऽभूदसती च नेयमजनि क्षीबा च यत् तन्महच्चित्रं चेतसि नः पदं प्रकुरुते कस्याऽग्रतो ब्रूमहे ॥६३॥ भल्ली चेतसि वेद्मि मार्गणमुखावस्थानतस्तावकी, कीर्तिं किन्त्वभवत् कुतूहलमिदं येषां हृदि प्राविशत् । एषा मार्गणतुण्डसक्तिरजनि स्वास्थ्यं च तेषां महद्, येषां च प्रविवेश नेयमुरसि स्वास्थ्यच्युतास्तेऽभवन् ॥६४|| लोकाह्लादकलाविलासपटुना शैत्येन विस्तारिणा, प्रद्योतेन च साधुसिन्धुरविधोः कृत्यं भवत्कीर्तिभिः । । जातं वीक्ष्य मुधा सुधाधुतिमिमं जानन् सरोजासनश्चिक्षेपाऽङ्कमिषान्मषीमिति न चेत् कोऽयं कलङ्को विधौ ॥६५॥ नित्यानन्दितदक्षजातममलं मन्ये त्वदीयं यशः, पीयूषत्विषमेव किन्तु समभूदस्य स्थितिः केतरा । पूर्णेऽप्यत्र न सङ्गमोऽजनि तमोग्रासोद्भुवां यद्भियामस्मात् प्रत्युत भीतिमेति नितमां चैतत् तमोमण्डलम् ॥६६॥ पानप्रीणितदेवदानवतति कीर्ति सुधां तावकी, दृष्ट्वा विश्वविसारिणी तदहयः स्वाकर्णतामस्तुवन् । . कर्णाभ्यां हि सुखं निपीयत इयं पाने त्वमुष्या विषं, सर्वं याति तदा च रज्जव इव स्यामः पदं न्यत्कृतेः ॥६७|| विश्वान्तर्गतवादिहन्मुखतटेरे लेशोऽप्यमुष्या न चेत्, तद् ब्रूमः कथमाप्तपुङ्गव! भवत्कीर्ति जगद्व्यापिनीम् । यद्वा ग्रावणि निष्ठुरे च चरणत्राणे च चर्मोद्भवे, बिम्बं न प्रतिबिम्बतां व्रजति चेद् बिम्बस्य तत् का क्षतिः ॥६८|| १. नित्यं नन्दित० - वि. । २. ०वादिहवदनयोर्लेशो० - वि. । ३. मिथ्यादुष्कृतमस्तु नः किमथवोपनत्तले चोपले - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy