________________
जान्युआरी - २०१४
मां पीयूषमयूखसुन्दररुचिं ब्रूते जनः स्वैरिणी, यत् सर्वोऽपि सतीमपि प्रगटवाग् मद्रागमग्नोऽपि हि । तद् दीव्यं प्रचिकीर्षुरीश! दधती पाणौ प्रतापानलं, त्वत्कीतिर्जगतां पुरो भ्रमणतो नाऽद्याऽपि धत्ते स्थितिम् ॥५६॥ 'चञ्चच्चन्द्रकुलोद्भवात् त्वदभवद् रामादपि श्वेतरुक्, श्लोक: सुनुरयं बुधान्मतिमतां चित्तेऽस्ति चित्रं न तत् । यज्जग्धाः परवादिनां हठवता सर्वास्त्वया कीर्तयः, स्यादाहारगुणः पितुस्तनुरुहे नीतेरसौ विस्तरः ॥५७॥ कर्णाभ्यां भवदीयकीर्तिममृतं पीत्वा नरांश्चाऽमरान्, दृष्ट्वा पुष्टिमितान् जनुर्विषधरैर्मेने स्वमन्तर्गडु । ही धात्रा कृपणेन कर्णविकलाः क्लृप्ता वयं वञ्चिता, अस्याः पानसुखोत्सवादमृतभृद् भावी भवो नः कथम् ॥५८॥ कालिन्दीकुटिलोम्मिकोटिपटुभिः प्रत्यर्थ्यकीर्तिप्रथापूरैः कैरवकेतकीकुमुदिनीकर्पूरपूरोपमः । ज्ञानाध्वानमुपैति लोकतिलक! त्वत्कीर्तिभूः शुक्लिमा, किं न ज्ञातुमलं निपीतनभसा धूमेन धूमध्वजः ॥५९॥ स्वःसत्शैवलिनीजलैः सवनकृत् कृत्वा विलेपक्रियामुघृष्टैर्हरिचन्दनैः शशधरैर्दुग्धाब्धिदुग्धोत्करैः । कुर्यादङ्गनिषङ्गिचङ्गिमचयं चेच्चन्द्रिकाचीवरं, कैलासस्तदुपैति देव! भवतः कीर्तेस्तुलां निस्तुलाम् ॥६०॥ एषाऽशेषविशेषविद्विरचितप्रोद्दामकामक्रमात्, त्वत्कीर्तिः श्रितमार्गणाऽभ्रमदलं ब्रह्माण्डमुद्दण्डदृक् । तच्चित्रं किमु वादिवृन्दहृदयाहङ्कारकारस्करस्कन्धोऽवेधि यदेतया यदिषुणा वेध्यं सुवेध्यं नृणाम् ॥६१॥ शीतां शीतमयूखमण्डलगलत्पीयूषलेखामिव, त्वत्कीर्ति स्मरसिन्धुरद्विरदजिद्! ब्रूमः कथं ब्रूहि नः ।
१. नाऽस्त्ययं श्लोकः 'वि.' प्रतौ । २. वदनवद् - पाठान्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org