SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ १रूपश्रीपरिभूतवारिधिसुतासूनोर्वयं संस्तुति, वाचामध्वनि दध्महे तव कथं कीर्तेः कुरङ्गीदृशः । येनैषा प्रतिमीयते धवलतासौभाग्यमुख्यर्गुणैरस्माकं न दृशोर्न च श्रवणयोस्तन्मार्गमारोहति ॥५०॥ अप्येभ्यो भुजगेभ्य एष भगवाञ् शम्भुर्विशेषी पुरा, मय्यासीत् स च मामिमांश्च कुरुते ही सन्निभान् साम्प्रतम् । यद् विश्वे विशदीकृते द्युतिभरैरस्याः सुधौधैरिव, त्वत्कीर्तेः प्रथमानमेष विषभृद्भर्तेव न स्तौत्यत: ॥५१॥ एतस्या महसां भरैः प्रसृमरैर्जाताऽवदातद्युति,२ मां यन्निर्जरनिर्झरिण्यवसरे वारांनिधिः मद्विभुः । हे स्वापि! समेहि देहि वचनं चैवं ब्रुवन्नर्थति, त्वत्कीर्ति विजितेन्दुकुन्दकुमुदां स्तौतीति पुत्री रवेः ॥५२॥ निश्वासोच्छसितैः कृशानुभिरिवाऽतीवोष्णकैर्वादिनामुत्तप्तं यतिराज! तावकयशो जज्ञे सुवर्णं स्फुरत् । देवाऽस्मासु हिमांशुहंसकुमुदक्षीराब्धिदुग्धैः समं', मा भूया विदधत्सु रोषरसिको व्यग्रा कवीनां हि वाक् ॥५३॥ श्रीखण्डं सभुजङ्गमम्बरसरित् सेयं पुनर्निम्नगा, कैलासः स कुबेरधाम भुजगाधीशो द्विजिह्वः पुनः । रोहिण्या रमणः कलङ्ककलितो हंसाश्च वक्राङ्गकास्तत् कुर्मः कथमेमिरीश! सदृशं त्वत्कीर्तिमेणीदृशम् ॥५४|| पण्डोद्दण्डसुराद्रिणा निमथनाद् दुर्वादिसिन्धोः सतीं, जातां ते भजतो जयश्रियमभूत् कीर्तिः सुता निस्तुला । निःपाणिग्रहणाऽपि विश्वमभजद् विश्वं पणस्त्रीव सा, यत् पित्रोरनयोरपत्यमभवत् तादृग महाकौतुकम् ॥५५॥ १. अस्य स्थाने वि. प्रतावयं श्लोक : २. जातान्यथा विभ्रमं - वि. । "सर्पदर्पकदर्पसर्पविनतासूनो! कथं संस्तुति, ३. वारां विभुमद्विभुः - वि. । वाचामध्वनि दध्महे भुवि भवत्कीर्तेः कुरङ्गीदृशः। ४. कुमुदायैस्तत्समं निःसमं - वि.। येनैषा प्रतिमीयते धवलतासौभाग्यमुख्यैर्गुणै- ५. हंसाः पुनर्विष्किराः - वि. । रस्माकं न तदम्बक-श्रवणयोः पन्थानमारोहति ॥" ६. महत् कौतुकम् - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy