________________
जान्युआरी - २०१४
'स्वामिन्! वैश्रमणाश्रितस्त्वमनिशं कैलास एवाऽसि यत्, त्वत्कीर्तिश्च महाव्रतिप्रणयकृत् स्वर्गापगैवाऽस्ति यत् । तां त्वज्ञां भणतस्तथापि तनुतः प्रेक्ष्येति लोकोऽब्रवीत्, "स्यान्नूनं रसिकत्वमग्नमनसामीदृक् कवीनां वचः" ॥४५॥ पाताले पवनाशनेशमनिशं प्रेतां धरित्रीतले, प्रालेयाचलमासनं च गगने यानं मरुत्कुञ्जरम् । त्वत्कीर्तिर्विदधे सितास्तदभवन्नेते तदासङ्गतो, नो चेत् सर्पवसुन्धराधरगजेष्वेष्वेष कः शुभ्रिमा ॥४६।। यत् कीर्तिं भवतो जगज्जनमनोज्योत्स्नाप्रियप्रेयसीमप्युचुः किल चन्द्रिकामिति बुधाः श्रद्दध्महे नेह तत् । एता यन्निशि चाऽह्नि चोन्नतिमती ३तुल्योभयोः पक्षयोनित्यं कान्तिभराऽऽश्रिता कविमनःप्रीतिप्रदेषा च यत् ॥४७॥ विश्वेषां पुरतः प्रतापहुतभुक्साक्षन्त्वयोरीकृता, कीर्तिः ख्यातिरतेन सा च भवता चक्रेऽर्थिसात् सूरिराट् । निध्यायन्निति तावकीनचरितं वाचामगम्यं वधूवर्गोऽभूत् त्वयि चम्पके मधुपवत् सर्वोऽपि वैराग्यभाक् ॥४८॥ कण्ठेकालकपदकोटरकुटीकोणेऽशुभिर्भासुरां, क्रीडन्ती भवदीयकीर्तिमबलां दृष्ट्वा सुराणां सरित् । काऽप्यन्या विधृता शिवेन शिरसीत्या बभूवाऽब्धिसाद्,
मन्यन्ते हि मृगीदृशः सुखमलं मृत्यु सपत्नीक्षणात् ॥४९॥ १. अस्य श्लोकस्य स्थाने वि. प्रतावयं श्लोको दृश्यते -
"हस्तस्थेन घनेन घातमकरोच्चन्द्रे प्रतापेन ते, कीतिर्योमगताऽमिताऽमृतघटे स्वस्वामिवाक्स्पर्धिनि । पीयूषं निपतत् तदङ्कविवरेणाऽधारि घासाङ्करैनैवं चेदमृतं प्रयच्छति कथं तच्चारिणी गोततिः ॥" श्लोकस्याऽस्याऽन्तिमपदद्वयं प्रतापाधिकारस्थाष्टादशश्लोकस्याऽन्तिमपदद्वयेन सह सर्वथा
समानतां भजते । २. पाताले पवनाशिनां परिवृढं प्रेक्षां च पृथ्वीतले - वि. । ३. ०मती तुल्यप्रभापेशला यत् कान्तोभयपक्षयोः कवि० - वि. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org