SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ चेत् कैलासविलाससानुरचिते तिष्ठेदहीशासने, तच्छुभ्रत्वतुलामुपैति भवतः कीर्तेरुडूनां पतिः ॥३८॥ त्वत्कीर्त्याऽमलयाऽखिलं जगदिदं सञ्जायमानं सितं, दृष्ट्वा भीतिमती प्रियः सिततमो लक्ष्यः कथं रोहिणी । मत्वेत्यङ्कमिषान्यधाच्छशिनि किं कस्तूरिकाहस्तकं, नैवं चेद् द्विजराजिपेशलकले कोऽयं कलङ्कोदयः ॥३९॥ जिग्ये त्वद्यशसां श्रिया कुमुदिनीप्राणप्रियश्चक्षुषोः, सम्पत्त्या हरिणश्च विश्वजनताऽऽनन्दोपदाप्रह्वया । स्थित्वैकत्र तयोर्जयाय तनुतस्तन्मन्त्रमेतावुभौ, नो चेदम्बरचारिभूमिचरयोरेकत्र वासः कुतः ॥४०॥ पीयूषैः सवनं विधाय वसनं कृत्वा च दुग्धाम्बुधि, नीत्वा स्वर्गतरङ्गिणी निगरणे हारिश्रियं हारताम् । स्थित्वा निर्जरकुञ्जरे च भुवनाभोगे भ्रमन्ती भवकीर्ति ति यदीयलोचनपथे तेषामभाग्योदयः ॥४१॥ इत्थं वक्तुमनाः किमु व्रतिसदःकोटीरहीरस्य ते, कीर्तिः स्फूर्तिमती सती गतवती ब्रह्माश्रमं ब्रह्मणः । त्रैलोक्यौकसि नाऽत्र माति सकले प्रौढः प्रतापः पुमान्, मद्भर्तुः कुरु तत्कृते तदितराल्लोकेश! लोकान् परान् ॥४२॥ विश्वस्वान्तसरोजकोशशयने लोके पुनर्भोगिनां, दिक्सारङ्गदृशां मुखेषु नितमां विघ्नौघविध्वंसने । क्षोणीस्त्रीहृदयेषु भाति भवतः कीर्तिः स्थिरस्फूर्तिभाग, हंसीवद् हरहारवद् हसनवद् हस्त्यास्यवद् हारवत् ॥४३॥ वृत्तत्वं तुहिनधुतेः फणभृतां भर्तुः पुनः शुभ्रिमा, प्रालेयाचलेतुङ्गशृङ्गगरिमा स्वर्दीर्घिकादीर्घता । मान्यत्वं च मनोज्ञमौक्तिकततेरेकत्र चेज्जायते, त्वत्कीर्तेरुपमा तदैव हृदये मेधावतां धावति ॥४४॥ १. समीराशिनां - वि. । २. ०चलपुङ्गवस्य गरिमा - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy