________________
जान्युआरी - २०१४
४७
स प्रालेयशिलोच्चये न सरसस्यन्देषु कुन्देषु न, क्षीराब्धौ न स नैव सोऽमृतभुजां वापीप्रवाहे पुनः । न ज्योत्स्नासु सितद्युतेः स च स च स्निग्धेषु दुग्धेषु न, त्वत्कीर्तेर्यतिचन्द्र! यच्छविपदप्रोज्जृम्भिते शुभ्रिमा ॥३२॥ यस्याः पूर्णमृगाङ्कमण्डलमिदं तुण्डं फणाभृत्पतिर्वेणी क्षीरपयोधिरम्बरमसौ तारा नखानां ततिः । . दन्ता मौक्तिकसन्ततिहिमगिरिगुर्वी नितम्बस्थली, जीयाद् विश्वविसारिणी चिरमसौ त्वत्कीर्तिसारङ्गदृक् ॥३३॥ माद्यद्वाद्ययशोनिषद्वरभरे त्वच्छ्लोकशुक्लच्छदः, शश्वत्पर्यटनादिह क्षितितटे जानन् पदौ पङ्किलौ । यात्वा व्योमनि धौतवान् हिमरुचौ पीयूषपद्माकरे, ' तत् तत्र प्रतिभाति पङ्कपटली सेयं कलङ्कच्छलात् ॥३४॥ : स्तोतव्यं द्वयमेव देव! विदुषां युष्मद्यशःशुभ्रिमा, विश्वाश्चर्यपदं च वादिवदनश्यामत्वमासीदिह । मुक्तात्माऽपि जहाति यो न विषयोल्लासं महेलाप्रियं, श्यामात्मन्यपि यत्र चाऽस्ति न मुदा पीनं कलावन्मनः ॥३५।। अत्युद्यद्भवदीयकीर्तिकिरणप्राग्भारशुभ्रीकृतक्रीडाक्रीडपरम्परासु कुसुमालाभाद् विषण्णा सती । गृह्णन्ती कुसुमान्यबोधि कुसुमाजीविप्रियारे षाट्पदे, तन्नादानुसृतिप्रसारितकराँदंशेऽपि शर्मोद्गमः ॥३६॥ कर्पूरस्पृहया करा निदधिरे सौगन्धिकैः कज्जले, भिल्लीभिर्बदरीफलानि दधिरे मुक्ताफलाकाङ्क्षया । पत्राङ्गाणि जनव्रजैर्जगृहिरे श्रीखण्डखण्डेहया, देवाऽस्मिन् भुवनत्रये धवलिते त्वत्कीर्तिचन्द्रत्विषा ॥३७|| चेन्मुञ्चेन्मृगमङ्कतो यदि घनैर्मज्जेदपामीशितुः, फेनैश्चेत् तनुयात् तनौ च रचनां श्रीखण्डखण्डद्वैः ।
१. विषण्णात्मना - वि. । ३. ०जीविस्त्रिया - वि. ।
२. गृह्णन्त्या - वि. । ४. प्रसारिकरया - वि. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org