SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ लब्ध्या वर्तुलमिन्दुमण्डलतुलं कैलासकं कन्दुकं, तद्यष्टिं च भुजङ्गराजमतनुं त्वत्कीर्तिकन्या नवा । तत्क्रीडां प्रचिकिः परं प्रतिभटं तुल्यं गुणैरात्मनः, पश्यन्ती तदनाप्सितस्त्रिभुवने नाऽद्याऽपि तिष्ठत्यसौ ॥२५॥ मूलं स्थूलमसौ भुजङ्गमगुरुः स्कन्धश्च गौरीगुरुदुग्धाम्भोनिधिरालवालवलयो व्योमाङ्गणं मण्डपः । शाखा दिग्गजदन्तपङ्क्तिरुडवः पत्राणि पुष्पाणि च, त्वत्कीर्तेः सुरवीरुधः फलमिदं शीतयुतेर्मण्डलम् ॥२६॥ त्वत्कीर्ति यदुशन्ति शान्तदुरितश्वेतां सतां राजयस्तन्नः स्वान्तपथाधिरोहमकरोन्नाऽऽश्चर्यचर्यावहम् ।। अस्या येषु सकृत् पदं प्रविदधे रङ्गो हि रङ्गत्तमस्तेष्वन्यः सुभगोऽपि नैव कृतवान् रङ्गः पदं जातुचित् ॥२७॥ नित्यं सत्यपि कीर्तिरस्ति भवतो वेश्येव यत्स्वैरिणी, नित्याऽसत्यपि यत् सतीव गृहगा कीर्तिऍनर्वादिनाम् । तत् सूत्रं तव वेश्मनः शुभमिदं तेषां समेषामुत, ब्रह्येतत् तनुमत्पितामह! महत् कौतूहलं नः पुरः ॥२८॥ कीर्तिस्ते दुहिता सती यतिपते! ब्रह्माण्डभाण्डोदरे, क्रीडन्ती वरवाञ्छया गरभिणी सर्वज्ञसङ्गादभूत् । ब्रह्माम्बागुणसूचितं समजनि स्कन्दे प्रसूते तया, नैवं चेत् क्व भुजङ्गभूषणभवे तस्मिन् सुते ब्रह्म तत् ॥२९।। अम्भोधिः पुरुषोत्तमप्रियतमां मत्वाऽऽत्मपुत्रीं भवत्कीर्ति मौक्तिकशुक्तिसम्पुटमदात् स्वं सारभूतं महत् । सा यान्ती त्रिदिवं नभस्तलशिलापीठे तदस्फोटयद्, मुक्तास्तत्पतिता बभुवुरुडवश्चन्द्रः पुनस्तद्दलैः ॥३०॥ त्वत्कीर्तिस्त्रिदिवं व्रजन्त्यनुकृतस्पर्द्धं विलोक्याऽन्तरे, जातेाऽमृतपूर्णमिन्दुकलशं हन्ति स्म वामांहिणा । घातोऽङ्कोऽजनि सोऽमृतं च तदभूत् तन्निर्गतं स्वर्नदी, नो चेत् क्व द्विजराजिलाञ्छनमिदं काऽसौ सरिद् व्योमनि ॥३१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy