________________
४५
जान्युआरी - २०१४
दृश्यन्ते यदमी दमीश! भुवनत्रय्यां प्रकामोज्ज्वलास्त्वत्कीर्तेः कमनीयकान्तिवसतेविद्मस्तदुज्जृम्भितम् ॥१८॥ सौरभ्यप्रभवः खलैणमदयोः श्यामत्वतुल्यात्मनोः, कामं कोकिलकाकयोः स्वरकलाकौशल्यजन्यः पुनः । आसीद् विद्रुमगुञ्जयोरतिशयी भेदश्च भारोद्भवस्त्वत्की, धवलीकृते त्रिभुवने नीहारहारत्विषा ॥१९॥ रौलम्बे पटलेऽनया धवलिते भासां भरैर्भासुरैर्जीवां जीवनिभामनन्यघटनामप्राप्नुवन्निस्तराः । यज्जातोऽस्मि गुणोज्झितेन धनुषा कोदण्डदण्डायुधस्त्वत्कीर्ति भुवनत्रये प्रसृमरां न स्तौत्यतश्चित्तभूः ॥२०॥ आसीत् कैरर्वतुम्बिकालिकुसुमज्ञानं रटत्षट्पदैः, कर्पूराम्बुधिफेर्नेमण्डलमतिर्गन्धादधादुन्नतिम् । ज्ञायन्ते कलहंसकह्वततयो न्यासैः पदानां पुनस्त्वत्कीर्ते रुचिवीचिचन्दनजलैलिप्तेऽत्र विश्वत्रये ॥२१॥ केशास्त्रस्तकुरङ्गदारकदृशां संजगिरे यत् सिता, मद्वासेषु जरा पदं तदतनोत् तद्भीश्च मे भूयसी । मत्वेति प्रतिषिद्धशुद्धसरणिर्दुह्यदिनां मानसं, त्वत्कीर्त्या भुवनत्रये धवलिते सङ्कल्पयोनिर्ययौ ॥२२॥ तस्याः संयमिपुञ्जकुञ्जर! भवत्कीर्तेर्ऋते धीमतां, वाचां गोचरमञ्चति त्रिभुवने नाऽन्यत् स्फुरत्स्फूर्तिमत् । या तुण्डान्यसतां सतां च युगपद् दीप्रै रुचां सञ्चयैविश्वावासविसारिणी प्रविदधे कालान्यकालानि च ॥२३।। चेदस्मासु सदा प्रसादविशदः सूरीन्द्रचूडामणे!, स्वस्याः कीर्तिमृगीदृशो विलसितं तद् ब्रूहि नः पृच्छताम् । एषा यत् पुरुषोत्तमाशयसरोहंसीति गी: सर्व्वगा, "वो वैकुण्ठमनोविनोदमसृजत् काऽस्या द्विधैषा स्थितिः ॥२४॥
१. कैरवकुन्दमुख्यकुसुम० - वि.। ३. कलहंससारसबका न्यासैः - वि.।
२. ४.
फेन चन्दनमति० - वि. । नो चेत् कुण्ठ० - आं. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org