SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ५४ अनुसन्धान-६३ अस्याः कान्तिभरैर्भृशं प्रसृमरैः शुभ्रीकृते पत्रिणां, सन्दोहे भविता कथं परिजनव्यक्तिप्रतीतिर्मम ॥१३॥ हंसश्रीभगवस्त्वदीययशसां चक्रेण चक्रे वृथा, तत्काङ्क्षी परमेष्ठिनं प्रतिगतस्तद्यानदम्भादसौ । नो चेद् गौरपरिच्छदः कथमिह त्यक्त्वा स सन्मानसं, प्राप्तः कल्पितकामितार्थघटनं लोकेशपादान्तिकम् ॥१४॥ त्वच्छ्लोकैर्धवलीकृते मुररिपौ सौवास्पदभ्रंशभाक्, कृष्णत्वं परवादिवृन्दवदने तस्थौ पुनस्तत्प्रिया । स्वेशानाप्तिमती त्वयि स्थितवती सूरीन्द्रचूडामणे!, नो चेत् तत्र कथं तदत्र च कथं सा सर्व्वदाऽऽश्चर्यकृत् ॥१५॥ शैलारेः सदने भृशोज्ज्वलतया विश्वकपद्माकरे, माद्यद्वादिजनाभिमानलतिकासंहारकर्मण्यलम् । श्रेयःकाननसेचने यतिपते! त्वत्कीर्तिराभाति गोनारीवन्नगनाथवन्नलिनवन्नीहारवन्नीरवत् ॥१६।। कैलासे शशिसोदराऽखिलधराभोगं भ्रमन्ती सती, त्वत्कीतिः सुरभिः शिवोक्षमिलनादापन्नसत्त्वाऽजनि । पश्य प्रीतिरसाधिपं कुमुदिनीप्राणप्रियं तर्णकं, गत्वा व्योम तया प्रसूतमुटजाभ्यपणे मुनीनामिमम् ॥१७॥ पाताले भुजगेश्वरोऽवनितले कैलासकुन्दोत्कर क्षीराम्भोनिधिमौक्तिकानि गगने स्वःकुम्भिगङ्गेन्दवः ।। १. एतद्धामसुधासुधाकरकरैः शुभ्री० - वि. । २. तस्थौ सदा तन्मुचि शुभ्रत्वादनवाप्तिभाक् त्वयिं रमानन्ते मदीयो विधौ (?) नो चेत् - वि. । ३. वि. इत्यत्र षोडशः श्लोक इत्थम् - श्यामः सिन्धुसुतापतिः पशुपतिः शुभ्रश्च तेनोभयोरेषोऽन्योन्यगुणेतरोऽपि महतोरासीद् विरोधो महान् । सोऽस्तः प्रीणयताऽखिलं कुवलयं युष्मद्यशःकौमुदी कान्तेन स्वमयूखयूषपटलैः शुभ्रं जगत् तन्वता ॥१६॥ ४. वि. इत्यत्राऽस्य श्लोकस्याऽऽद्यपदद्वयमित्थम् - कुन्देन्दुद्युतिसुन्दराऽजनि भुवां भोगं भ्रमन्ती सती, कैलासे गिरिशोक्षसङ्गवशतस्त्वत्कीर्तिगौगर्भिणी । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy