SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ४२ २ कीर्त्त्यधिकारः दत्ते चेद् रसनाः पतिः फणभृतामायुः सरोजासन:, प्रज्ञां स्वर्गसदां गुरुः कविकलां पातालधाम्नां गुरुः । स्थैर्यं निर्ज्जरभूधरश्च भगवान् सिद्धिं पशूनां पतिस्त्वत्कीर्त्तिं तदहं प्रभो! पथि नुतेर्नेतुं भवेयं क्षमः ॥१॥ न च्छिद्राणि मृगाङ्कमण्डलकले त्वत्कीर्तिमुक्ताफले, 'विश्वोल्लासविधाननित्यनिपुणे नाऽन्तो गुणानां गणे । लब्धाशेषविभूषणा कथमियं शश्वत् त्रिलोकीवधूरस्माकं नयनोत्सवं विदधती तद्धारिणी राजते ॥२॥ केयं कैरवकुन्दचन्दनरुचेस्त्वत्कीर्तिवक्रभ्रुवः, शक्ति: सूरिशिरोऽवतंस! जगतां चेतश्चमत्कारिणी । जज्ञे पुण्यजनप्रियाऽप्यनुदिनं स्वैरं भ्रमन्ती सती, विश्वेऽस्मिन्न भियां निबन्धनमियं यत् कस्यचित् कर्हिचित् ॥३॥ वैदग्धी नहि दुग्धनीरधिलसडिण्डीरपिण्डद्युतेस्त्वत्कीर्तेर्यतिचन्द्र! कोविदगिरामध्वानमारोहति । न श्यामा न पुनः २ प्रदोषकलिता नाऽप्येकपक्षे शुचि - र्नो दोषाकरमानसप्रणयकृद् या राजकान्ताऽप्यभूत् ॥४॥ त्वत्कीर्ते रसमुज्झितेतररसाः कुन्देन्द्वनिन्द्यद्युतेः, पीयूषादपि पेशलं स्वलपनान्मोक्तुं वयं नेश्महे । शश्वत्स्वैरविहारिणीमपि जना जानन्ति यां यत् सर्ती, सर्व्वज्ञप्रणयप्रकर्षनिपुणा याऽभूददुर्गाऽपि च ॥५॥ गोभिस्तापविभेदिभिः कुवलयोद्बोधप्रपञ्चे पटुविश्वाकाशपथे चरस्तव यशश्चन्द्रोऽतिसान्द्रद्युतिः । तेषामेव यतो बिभेद वदनब्राह्मीं विधौ प्रीतिदां, दुःकालोऽजनि वादिनां त्वदुदये युक्तोऽयमर्थस्ततः ॥६॥ १. ०ल्लासविधाविलासनिपुणे न त्वद्गुणेऽन्तः क्वचित् - वि. । २. न च न प्रदोष० वि. । Jain Education International अनुसन्धान-६३ For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy