SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ 'स्वान्तेऽस्माकमहर्निशं बहुतरो धत्ते विरोधः स्थिति, 'वैदग्ध्ये वसतां सतां हृदि कलाकेलिं च पुष्णाति यत् ॥७१।। भानून् व्योम्नि वसुंधरासु शिखिनः सर्वान् विजित्य श्रिया, पातालेऽब्धिपथेन वाडवभिदे याति प्रतापे तव । भीतो जम्भजितः कराम्बुजमसौ दम्भोलिदम्भादगानैवं चेत् प्रतिपक्षजीवनमयं सद्यः कथं शोषयेत् ॥७२॥ औो याति तरङ्गिणीप्रणयिनस्तोये वसन् पीनतां, विद्युद् वृद्धिमुपेत्यलं जलमुचः पाथःप्रवाहे स्थिता । स्याद् दुर्वादिवधूविलोचनजलैः पुष्टः प्रतापश्च ते, तेनैषां पटुरेक एव हि कलाचार्यस्त्रयाणामभूत् ॥७३॥ देव! त्वत्प्रबलप्रतापहुतभुक् प्रोजृम्भितो वादिनां, वंशवातमदीदहत् द्रुतमितस्तस्मादकस्माद्भवः । 'धूमौघो दिवमाकुलाम्बकततिर्वक्तीति पूर्वापतिः, पाणिभ्यां पिदधे कथं कथमहं द्वाभ्यां सहस्रं दृशाम् ॥७४॥ 'वारां शक्तिरनश्वरी हुतभुजां निवा॑पणे' गीरसौ, वातूलाहततूलतुल्यपदवीं लोकेऽत्र धत्तेऽधुना । संसिक्तोऽपि दृशां पयोभिरनिशं प्रत्यर्थिवक्रभ्रुवां, वृद्धि यत् कलयाम्बभूव महतीं युष्मत्प्रतापानलः ॥७५॥ घोषावंशवतंसकंसजिति यत् प्रेम श्रियोऽनीदृशं, मन्ये तत् पुरुषोत्तमे समजनि त्वय्यप्यजर्यास्पदे । श्रीकामः सुमनोमनोरथलताकन्दैककादम्बिनीकल्पोऽनल्पमहा बभूव तनुभूमेिव तत्कारणः ॥७६।। इति पण्डितश्रीहेमविजयविरचिते श्रीकीर्तिकल्लोलिनीनाम्नि समस्तसुविहितावतंसयुगप्रधानश्रीविजयसेनसूरीश्वरवर्णने प्रतापाधिकारः ॥ १. चेतस्येष विशेषचिन्त्यपदवीं धत्ते - वि.। २. वैदग्धो - अं. । ३. और्वः स्मैति - वि.। ४. मुपेयुषी - वि. । ५. धूमो व्योम तदाकुलाम्बकततिः प्राचीपतिः प्रोचिवा नित्थं हा पिदधे कथं द्वयमिदं पाण्योः सहस्रं दृशाम् - वि. । ६. सद्यः साम्प्रतमेव सङ्गतवती वातूलतूलैस्तुलाम् - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy