SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६३ अप्याधातुमना मुनिव्रजमणे! युष्मत्प्रतापोल्लसद्भूयोविद्रुमरत्नहारममलैः प्रोतं त्वदीयैर्गुणैः । तेनाऽभूद् भुवनत्रयीहरिणदृक् तत्कर्ममन्दादरा, यच्छिद्राणि न सन्ति तत्र किमहो! नाऽन्तोऽपि तत्राऽस्ति यत् ॥६५॥ नाऽम्भोभिर्बहलैर्दलैर्न मृदुलैर्न स्यन्दनैश्चान्दनैः, सच्छायैर्न लसल्लतादिनिलयैः शैत्याकुलैर्नाऽनिलैः । 'कामानुष्णमरीचिना न शशिना शान्तः स तापः परश्चक्रे वादवतां स्फुरत्तमरुचा युष्मत्प्रतापेन यः ॥६६॥ कोलव्यालशृगालसिंहशरभव्याघ्रौघहिंस्रासुमद्व्रातात्ता न वदन्ति दुःसहतरं युष्मत्प्रतापं बुधाः । एभिः संभृतमप्यमी यदमुनाऽऽश्लिष्टा गृहेष्वक्षमाः, संस्थातुं परवादिनः प्रविविशुः कालाननं काननम् ॥६७॥ हे त्रातः! पुरुषोत्तमात् शमरमासम्भोगसंयोगतः२, प्राप्तप्रीतिरतिर्यदि प्रकटितस्त्वत्तः प्रतापोऽङ्गजः । कामोऽसाविति नो तथापि हि वयं वक्तुं भवामः क्षमा, अत्याक्षुर्विषयाननेन यदमी क्रोडीकृता वादिनः ॥६८॥ निर्दग्धाः परवादिपक्षतरवो युष्मत्प्रतापाग्निना, तेभ्यो धूसरधूमधोरणिरभूत् साऽसूत कादम्बिनीम् । साऽमुञ्चत् सलिलं ततोऽम्बुजमभूत् तस्माद् विधाताऽभवत्, तस्याऽऽसीत् तनया च सा श्रितवती त्वां त्वं च यत् तत्प्रियः ॥६९॥ एकश्चेद् वरिवति वाडवशिखी दम्भोलिरेकश्च चेदेका चेदचिरात्रयं हुतभुजां चेद् द्वादशाऽर्काश्च चेत् । नित्यानन्तभवत्प्रतापशिखिना तत् किं तुलां यान्त्यमी, साम्येनैव हि मेयमापकविधे:३ कर्म प्रशंसाऽस्पदम् ॥७०॥ यातु स्थाणुतृतीयलोचनतुलां युष्मत्प्रतापानलः, प्रोद्दीप्रः परवादिकामदहनप्राप्तप्रकर्षादयः । १. कामोद्दाममरीचिना - वि. । २. ०संयोगिनः - वि.। ३. ०मापकतुलायासः प्रशंसा० - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy