SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ तत्पीतैः सलिलैः फलैस्तदशितैरात्तैः कुटीरैश्च तैस्तेषामेव निपेयभक्ष्यभवनाप्राप्ते(सौ) रुषां यज्जनिः ॥५८॥ नष्टानीश! भवत्प्रतापनृपतेरातङ्कतः काननावासं वर्यमवागमन्नपि गृहाद् वृन्दानि दुर्वादिनाम् । लब्धाऽस्माभिरिह क्षितिश्च नितमां वर्तामहे भूषिता, अस्माकं यदभूदिहाऽपि हि शिवाश्लेषः समाधेः पदम् ॥५९॥ वादेऽस्माकमशेषविस्मयफलं यत् पैशलं कौशलं, तारुण्यं सुदृशामिवाऽपतिजुषामासीत् तदन्तर्गडु । वज्रोत्तेजितहेलिमण्डलबले युष्मत्प्रतापे सति, प्रापुर्यत् सहसैव वादिनिवहा द्वैधं श्रुतेर्गोचरम् ॥६०॥ चञ्चच्चन्द्रमरीचिसञ्चयशुभैर्युष्मत्प्रतापाभिधश्चीरं यद् रचयाञ्चकार यशसां वृन्दं कुविन्दो गुणैः । तेनाऽस्मिन् जगतां त्रयेऽपि पिहिते नाऽन्तः समेति स्म यत्, तत् सम्यक् शमिसिंह! तत्र निचिता आनन्त्यभाजो गुणाः ॥६१॥ चत्वारः पुरुषोत्तमस्य 'नियताः स्वःसद्गुरोर्वादश, द्विपङ्क्तिप्रमिता निशाचरपतेर्भानोः सहस्रं कराः । नैषा कोटिसहस्रलक्षनियमः स्वामिन्! प्रतापस्य ते, निःसङ्ख्यप्रतिवादिनां हि युगपद् यः श्रीकचानग्रहीत् ॥६२॥ पाथोधेरिव पाथसां मतिरलं केषां मनीषाजुषां, तापस्य प्रमिति विधातुमभवद् युष्मत्प्रतापोद्भुवः । यद्दग्धैः परवादिभिः श्रितवनै नुर्वयस्थोऽपि यत्, पीयूषांशुरमानि दावदहनः क्रीडातडागश्च यत् ॥६३।। किं नैष प्रगटप्रभापरिवृतप्रत्यग्रपूषत्विषा, सर्वेषामपि वादिनां गुणगणश्चक्रे प्रतापेन ते । ध्वान्तं ध्वान्तविरोधिनेव नयता प्रान्तं प्रमीलां बलादस्वप्ना अमुना सना विदधिरे प्राणान् धरन्तो ह्यमी ॥६४|| १. नियतं सप्तैव सप्ताचिषः, कामोद्दामतराः कराः कमलिनीभर्तुः सहस्रं पुनः, एतेषां न सहस्र० - वि.। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy