SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ३८ माद्यद्वादिजनाभिमानसमिधां सम्भारसम्पूरितः, सिक्तस्तत्कमलेक्षणेक्षणपतद्वाष्पौघतैलोत्करैः । हृष्यद्बन्दिविनोदिवाक्यविसरस्फारानिलैः फूत्कृतः, कामं स्फीतिमुपैति पिङ्गलमहा युष्मत्प्रतापानलः ॥५२॥ छायां रम्यतमां दधत् सहचरीमौपम्यमम्भोजिनीभर्तुर्यातु जगत्पितामह! महांस्तीव्रः प्रतापस्तव । केयं रीतिरुदञ्चयन्नपि चिरं देहेषु दुर्व्वादिनां, तापं शोषितचन्दनद्रवभरं जाड्यं न जह्रे क्वचित् ॥५३॥ माद्यद्वादिमतङ्गजद्विपरिपो! सर्व्वत्र विस्फूर्तिमाँश्चक्रे पाणिपयोजगं जयमयं प्रौढप्रतापस्तव । कुत्र स्मैति मदीयपुत्रहृदिति ध्यात्वा पतिः स्वर्गिणां, तं निध्यातुमना इव स्मितरुचामक्ष्णां सहस्रं दधौ ॥५४॥ पाताले वडवानलोरगशिरोरोचिष्णुरोचिर्मणीन्, क्ष्मापीठे च शुकास्यकिंशुकजपानिर्द्धमधूमध्वजान् । निर्जित्यैष भवत्प्रतापनिकरो दम्भोलिमर्कच्छलादू, जेतुं याति दिवीव चेन्नहि नभः पान्थः कुतोऽसौ स्मृतः ॥५५॥ 'दिक्स्कन्धाश्चतुरश्रिका घटततिः कुम्भाश्च दिक्कुम्भिनां, प्रोत्सर्पंस्तरणिर्व्रजो हुतभुजां दुर्वादिगर्व: समित् । प्रक्षेपो हविषां समेऽप्युदधयो विप्रा वयं बन्दिनो, जीयादेष भवत्प्रतापभुवनत्रय्योर्विवाहक्रमः ॥५६॥ दम्भादम्बुधिमध्यमौर्वशिखिनः खं घर्म्मरश्मिच्छलाद्, भालं कालरिपोस्तृतीयनयनव्याजासौ संस्थितः । युष्माकं प्रबलः प्रतापदहनो नो चेत् कथं तस्थुषा - मेषां नीरधिनीरदाश्रयसरित्कूले महस्तापकृत् ॥५७॥ कान्तारे भवतः प्रतापभयतः स्थानं श्रितैर्वादिभिः, साकं काननवासिनां समभवद् भूयान् विरोधोदयः । १. दिग्देशाश्चतुर २. ० तरणिस्त्री० Jain Education International अं. । अं. । अनुसन्धान- ६३ For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy