SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१४ ३७ मन्ये मान्यजनाऽवतंस! सबलाहङ्कारमूढात्मनां, प्रौढानां परवादिनामहमसून् फल्गूस्तृणेभ्योऽपि यत् । दीप्ते सन्ति भवत्प्रतापदहने तानि प्ररूढानि यत्, २सन्तः संवरपञ्जरे समभवन् भस्मावशेषाश्च ते ॥४७॥ सोन्मादे परवादिवृन्दहृदये शल्यं न तादृग् भवानुद्यद्भिर्महसां भरैर्भरितदिग् यादृक् प्रतापस्तव । . . . श्यत् त्वं सङ्गत एव देव! तनुषे तेषां हृदन्तर्खरं, सो दृष्टोऽप्यघटिष्ट नाशमचिरान्निद्रापिपासाक्षुधाम् ॥४८॥ वादोऽभूद् ५रुचिगोचरः कमलिनीकान्तेन साकं सदा, श्रेयोधामनिकामकर्कशरुचेर्युष्मत्प्रतापस्य यत् । तद्भङ्क्ता भवति स्म वादिविसरो निःसीमशम्र्मेहया, " स्वान्योकांसि विहाय शैलशिखरेऽतिष्ठत् प्रभूतातपे ॥४९।। धम्मिलः किमशोकपल्लवमयो बालप्रवालोल्लसन्, हारः किं किमु क्लृप्तलेपनविधिः काश्मीरनीरद्रवैः । कौसुम्भं च किमम्बरं वरतरं विश्वत्रयीसुध्रुवः, शोणः किंशुकराशिवद् द्विजपते! तात! प्रतापस्तव ॥५०॥ दावाचिनिचयाद् “भृशोष्णमहिमा युष्मत्प्रतापः प्रभो!, तद्दग्धास्तृणराशयो जलधरैः सिक्ताः प्ररोहन्ति यत् । 'तत्प्लुष्टा परवादिनां स्मयलता सिक्ता तदेणीदृशामश्रान्तं स्रवदश्रुवारिनिवहेर्नैषा तनोत्युद्गमम् ॥५१॥ १. ०दिमामसुभरं फल्गुं तृणे० - वि. । २. तिष्ठत् संवरपञ्जरेऽपि समभूद् भस्मावशेषश्च सः - वि. । ३. सद्यः सङ्गत - वि. । ४. यदन्तरं - वि. । ५. रविगोचरः - अं.। ६. ०कान्तेन कान्तत्विषामावासेन निकाम० - वि. । ७. विजयते - वि.। ८. निचयान्निकामकठिनो युष्मत्प्र० - वि. । ९. तत्प्लुष्टाः परवादिनां स्मयलताः सिक्तास्तदेणी० - वि. । १०. निवहेनोद्यान्ति यज्जातुचित् - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy