SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ २ अनुसन्धान-६३ त्वं पीयूषमयूखमञ्जुलमुखः कान्तैर्गुणैर्भूषितस्त्वत्कान्ता कमलानना च समता कर्पूरपूरोपमा । प्लुष्टाशेषकुवादिदृक् कथमभूत् तद् वां प्रतापः सुतः, किं वा वैभवभारभूषितभुवां चिन्त्यं चरित्रं न यत् ॥४१।। 'देवारोधविरोधभाग्गुणयुगं युष्मत्प्रतापोद्भवं, संप्राप्नोति पदं कथं कथय तच्चेतस्विनां चेतसि । आताम्रोऽपि कुवादिवृन्दवदने य: कालिमानं व्यधादत्युष्णोऽपि चकार साधुहृदये य: शान्तिमानं पुनः ॥४२॥ व्याप्ताशेषजगन्मुनिव्रजमणे! युष्मत्प्रतापोद्भवस्तापौघः कथमेति विज्ञमनसां पुंसां गिरां गोचरम् । यत्प्लुष्टैः परवादिभिः क्षितिरुहां स्तोमैर्घने कानने, तिष्ठद्भिर्जलसंस्तवः क्षणमपि त्यक्तुं न यत् पार्यते ॥४३॥ . देवाऽकर्णय तद् बभूव भुवने यत् त्वत्प्रतापैभृते, मृत्युदवतां तदीयसुदृशां बाष्पैर्भुवः पङ्किलाः । ५आसन् नीररुहाणि तत्र सविताऽतुष्यत् स्वमित्रैर्घनैस्तस्मिंस्तुष्टिमिते ददौ प्रमुदिते तद्भूश्चिरायुस्तव ॥४४॥ ध्वस्तः कीर्तिभरैस्तव द्विजपतिस्तीत्रैः प्रतापोत्करैः, प्रत्यर्थी तमसां च सौवकिरणाश्लिष्टत्रिलोकीतलैः । प्राप्तौ स्वासुखमीरितुं ननु जगन्नाथस्य तौ तत्पदं, नो चेद् चण्डरुचेस्तथाऽमृतरुचेरेकास्पदे क्व स्थितिः ॥४५॥ गङ्गा रङ्गमुपेयुषी जलनिधेः पुत्री प्रमोदं दधौ, "पौलोमी प्रमना बभूव नितमां ब्राह्मी जहर्षोच्चकैः । एवं शङ्करशौरिशक्रशशिभिर्युष्मत्प्रतापे स्तुते, चक्रेऽसावसतां सतामपि च यद् धाम्नां ततिं “भूतिसात् ॥४६॥ १. भाव्यं न यद् वैभवम् - वि.। २. भूयोऽन्योन्यविरोध० - वि.। ३. ०शेषजगज्जगज्जनसुहृद्! युष्मत्प्रतापप्रथातापौ० - वि. । ४. ०मेतिकाव्यमनसां - वि. । ५. तस्मात् ते कमलोत्करो मुदमधाद् वार्यस्य वृद्ध्यांऽशुमान् तस्मिंस्तु० - अं. ६. सौवविभरै(?)राश्लिष्टविश्वोदरैः - वि. । ७. पौलोमी कलयाञ्चकार कमलां ब्राह्मी - वि.। ८. भूमिसात् - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy