SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३५ जान्युआरी - २०१४ नाभून्मन्दमहाः कुवादिभुजगैर्द(?)ष्टोऽपि यः कर्हिचित्, . प्रत्यग्रः प्रकटीबभूव भुवने दीपः प्रतापस्तव ॥३४॥ ईती (र्नी)तिमतां मतङ्गज! भवन्माहात्म्यधात्रीधनो(वो), यन्नाशं गमयाम्बभूव तदिदं सम्यग् न मन्यामहे । नाऽत्याक्षीदतिवृष्टिरस्थिरदृशां दृष्टीः क्षणं यद् भुवि, भ्राम्यद्भिर्भवतः प्रतापदहनैः प्लुष्टात्मनां वादिनाम् ॥३५॥ मित्रे तोयरुहां जिते यतिपते! युष्मत्प्रतापोत्करैरास्थानं रचयाञ्चकार वदने दुह्यदिनां तत्प्रिया । संवासं च तदीयवंशविषये तन्नन्दनो निर्ममे, यत् तत्रैव तयोविजृम्भितमगादस्माकमक्ष्णोः पथि ॥३६।। व्योम्नि व्यक्तिमुपेयुष: 'सुखस्वने(?) युष्मत्प्रतापानलप्राग्भारस्य निषङ्गरङ्गरसतः शम्पाऽभवद् गर्भिणी । स्वर्वापीपुलिने निभालय तया सूतः सुतः कान्तिमान्, नो चेद् वादिवयस्यकौशिकदृशां मुद्रा कथं तज्जनौ ॥३७॥ निद्राणां परवादिदृक्कुवलयश्रेणिं विलोक्योत्तमैः, सर्वत्राऽभ्युदयी प्रतापतपन: स्वामिंस्तव ज्ञायते । न स्फूर्जन्ननुमीयते हुतभुजां स्तोमस्तमःश्यामला, धूमस्य प्रविलोक्य मूलललितां लेखां किमभ्रंलिहाम् ॥३८॥ नाऽस्तं यः समुपैति यः कुवलयोद्वेगं विधत्ते न हि, प्रीतिं यः प्रकरोति कौशिकदृशां योऽश्नाति नित्यं तमः । रोद्धं नैव यदातपः प्रसृमरश्छत्रादिभिः शक्यते, प्रादुर्भावमुपेयिवानभिनवस्तत् त्वत्प्रतापोंऽशुमान् ॥३९।। रागोऽस्मद्वदनेऽमुना विरचितस्तुण्डे पुनर्वादिनां, श्यामत्वं विहितं भुवि प्रसरता युष्मत्प्रतापेन यत् । तद् ब्रूमः परमप्रियास्तमरुणं श्यामं च ते तं विदुः, सत्याः स्मः किमु तेऽथवा गुणगणैराकीण! निर्णीयताम् ॥४०॥ १. सुखखते (?) - वि. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520564
Book TitleAnusandhan 2014 03 SrNo 63
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy